Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
भूमिका |
किञ्च - साधारणबुद्धिरपि पुरुषः स्थूलतमविमर्शनापि तदिदं परिज्ञातुं प्रभवेद्यत् प्राकृतभाषायां मूलभूता संस्कृतभित्तिः स्फुटं प्रतीयते न वा । 'आअण्णाअड्डि अणि सिअभल्लमम्माहआए' इत्येतेषामक्षराणामन्तस्तले 'आकर्णाकृष्टनिशितभलमर्माहतया' इत्यादिसंस्कृताक्षराणां मूलरूपेण प्रतिफलिता प्रतिच्छाया न प्रतिभाति ? प्राकृतस्य गद्यं पद्यं वा यत्संस्कृतेऽवतार्यते तत् किल 'छाया'नाम्ना, आदिकालादारभ्याद्यपर्यन्तं प्रसिद्धम् । अनेन किं नानुमातुं शक्येत यत्संस्कृतस्य प्राकृतस्य च मध्ये छायामात्र कृतमन्तरमिति । प्राकृतस्य छायामाश्रित्य संस्कृतमुत्पन्नमित्ययं भ्रमस्तु पूर्वं निरस्त एव । ततश्च सुस्पष्टं सिध्यति यत्संस्कृतस्यैव छायाश्रयेण प्राकृतस्योत्पत्तिरिति ।
२
प्राचीनमतावलम्बिनां प्रतिद्वन्द्वितायां किञ्चिन्नवीनमेव वक्तव्यमित्याप्रहिला इव केचन महामहोदयास्तदिदमपि मनस्यभिमन्यन्ते यत्संस्कृतापेक्षया प्राकृतभाषा साम्प्रतमपि मधुरतरेति । प्रत्यक्षमेव मयानुभूतामेकां घटनामवतारयामि । अनया हि पाठकमहाभागाः स्पष्टमिमं विषयं तत्त्वतः परिजानीयुः । मया ह्येकस्मै महाभागाय मदनूदिताया गाथाससशत्यास्तदिदमेकं पद्यं केनचित्प्रसङ्गेन श्रावितमभूत् -
शंसन्ति कामिनीनामम्बुनिलीनप्रियाङ्गसङ्गसुखम् । पुलकित कपोलसंफुल्लनिश्चलाक्षाणि वदनानि ॥ ६५८ ॥
महाशयेनानेन सभ्यतानुरोधिनं साधु साध्वित्यादिप्रासङ्गिक प्रशंसाकाण्ड परिसमाप्य पर्यन्ते पृष्टं यत् – 'अस्य मूलभूता प्राकृतगाथा तूपन्यस्यतां या ह्येतदपेक्षया कियत्को'टिकं कर्णमधुरा भवेत्' । मया सविनयमावेदितम् 'यदा ह्यस्य मूलभित्तिः प्राकृतगाथा तदा कुतो वा सेयमभिनन्दनीया न भवेत् । परं सा कर्णमधुरापि भवेदत्र मतभेदो भवितुमर्हति, विशेषतः प्राकृतप्रचारात्प्रकामं विप्रकृष्टेस्मिन्काले । तैः सोत्तेजनमुत्तरितं "नैवम् नैवम्' । मया सा गाथा पुस्तकान्निस्सार्य तेषामग्रतः स्थापिता
पिसुणेन्ति कामिणीणं जललुक्कपिआवऊहणसुहेल्लिम् । कण्डइअकवोलुप्फुल्लणिच्चलच्छीइँ वअणाई ॥ ६५८ ॥ .
मन्मतानुसारं तु तामिमां गाथामेते स्पष्टं पठितुमपि न प्राभवन् । आत्ममतं दुर्बलं भवतीति सुमधुरपठनाय निभृततममाभ्यन्तरप्रयत्नं कृतवन्तोप्युत्तरार्धं छन्दोलये निबन्धुं नापारयन् । एष हि समयोऽपभ्रंशमार्गस्य कृते स्पष्टं प्रतिकूल एव । यतो हि साम्प्र तिकाः किल राष्ट्रीय साहित्यप्रचारका देशभाषाया अपि अपभ्रंशपथसिद्धं व्रजभाषादिरूप - माच्छिद्य तादृशं नवीनमेव रूपं सृजन्ति यत्र हि किञ्चिदप्यपरिवर्तितानि संस्कृतपदान्येव आमूलचूडं क्रीडन्ति । वर्तमानसमये देशीयसाहित्यमहारथिनः
'थप्पन उथप्पन सपच्छ अरिदप्पनके
छप्पन करोर जादों कप्पन कलेसजू । चप्पन प्रतापतेज तप्पन के जासु जस जप्पन औ अप्पन समप्पन हमेस जू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 446