Book Title: Dhaturatnakar Part 3
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 8
________________ श्रीमञ्जिनपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपति भट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज-विजयनेमिसूरीश्वर चरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो धातुरत्नाकरः नत्वा श्रीनेमिनामान माजन्मब्रह्मचारिणम्, तीर्थनाथं गुरुं चैव भारती जिनभाषिताम्॥१॥ धातुरत्नाकरस्याहं लावण्यविजयो मुनिः, भागं तृतीयमातन्वे बालानां सुखहेतवे।।२।। णिगन्तरूपपरम्पराप्रकृतिनिरूपणानन्तरं सन्नन्तरूपपरम्पराप्रकृतिरुदाह्रियते। तुमर्हादिच्छायां सन्नतत्सनः ।३।४।२१ ।। यो धातुरिषेः कर्म इषिणैव च समानकर्तकः स तमर्हः तस्मादिच्छायामर्थे सनप्रत्ययो वा भवति न चेत्स इच्छास चिकीर्षति। गन्तमिछति जिगमिषति। तुमादिति किम्? अकर्मणोऽसमानकर्तकाच्च मा भत्। गमनेनेच्छति। भोजनमिच्छति देवदत्तस्य। इच्छायामिति किम्? भोक्तुं व्रजति। अतत्सन इति किम्? चिकीर्षितुमिच्छति। तद्ग्रहणं किम्? जुगुप्सिषते। सनोऽकारः किम्? अर्थान् प्रतीषिषति। नकार: सनग्रहणेषु विशेषणार्थः । कथं नदीकुलं पिपतिषति। श्वा ममर्षति। पतितमिच्छति इति वाक्यवदपमानाद भविष्यति।।२१।। धातोरपि वर्तते तस्य तुमर्हादिति विशेषणम्, तदेव यो धातुरित्यादिना व्याचष्टे-इषेः कर्मेति इषेर्धातोर्यो धातुः कर्मेत्यर्थः । कर्म च क्रियाव्याप्यं शास्त्रीयं गृह्यते, न तु लौकिकं क्रियालक्षणं, कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययात्। क्रियाव्याप्यत्वञ्च धातोर्टाभ्यां प्रकाराभ्यां सम्भवति, अभिधेयद्वारेण स्वरूपेण च, तत्र स्वरूपेण कर्मसम्भवेऽपि समानकर्तृकत्वं विशेषणं नोपपद्यते। तथाहि-धातोः स्वरूपेण कर्मत्वं यथा पचिमिच्छति पचतिमिच्छतीति इकिश्तिव: स्वरूपार्थे क्रियन्त इति तदन्तेन धातुद्रव्यस्वभावोऽभिधीयत इतीषिकर्मत्वं तस्यास्ति साध्यस्वभावासम्भवात्तु समानकर्तृकत्वासम्भव इत्यर्थद्वारेणैव कर्मत्वं समानकर्तृकत्वञ्च तस्यश्रीयते। इषेरिष्यर्थस्येच्छायां कर्म इषिणेष्यर्थेनैवेच्छय समानकृर्तक इत्यर्थः। ननु तद्व्यापि कथं धातुरिच्छायाः कर्म भवति, धातुर्हि क्रियार्थशब्दः प्रकृतिभूतोऽधीयते स च स्वार्थे क्रियाणां गुणीभूतो नेच्छायाः प्रत्ययार्थस्य कर्म भवति, अभिधेय एव हि कर्मादिभावप्रतिपर्त्तिन तु वाचकोऽभिधेय इति। तथा समानकर्तृकत्वमपि कर्तुः क्रियाभिसम्बन्धत्वादक्रियात्मनि धातौ न सम्भवतीति कथमुक्तं यो धातुरिषेः कर्म इषिणैव च समानकर्तृक इति। उच्यते। धातुरित्यप्यर्थ एवोपचाराद्धातुशब्दाभिधेयः अर्थे च कार्यासम्भवात्तद्वाचिशब्दप्रतिपत्तिरिति तदर्थाच्छब्दात्सन प्रत्ययो भवतीत्यदोषः। नन्वेवमपि कर्मत्वं समानकर्तकत्वेति धातोर्विशेषणेन निर्वत्तो एकस्य सिद्धस्वभावत्वादपरस्य च साध्यस्वभावत्वादिति नैष दोषः समानकर्तकत्वं साम्प्रतिकसाध्यस्वभावापेक्षं कर्मत्वञ्चोत्तरकालिकसाध्यस्वभावापेक्षं साध्यं हि फलप्राप्तिकालेऽवश्यंभावेन, सिद्धस्वरूपेण च सम्भवदपि धातोः कर्मत्वं समानकर्तृकत्वानुरोधेन तदर्थस्याश्रीयत इत्युक्तं कर्तुमिच्छतीति। अत्रेष्यमाणत्वात्करोत्यर्थस्येषिकर्मता इषिणैव च समानकर्तृकता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 780