Book Title: Charupmandan Parshwanath Stuti
Author(s): Punyavijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ 3. (वामेय - वामातनय-पार्श्वप्रभो ! / 4. मे मम, कामितका [कामितकम्] इष्टसुखम् ) / 5. तनु-विस्तारय / 6. श्रीगरिष्ठ / 7. सदा नित्यम् / 8. लोकेभ्यः नवः स्तव्यो यस्य (लोक-नव, व-बयोः चित्रकाव्ये ऐक्यात् प्रथमपादे 'न बाल' इति अत्र च 'न वाऽऽल' इति ग्राह्यम् / 'नु स्तुतौ' इत्यस्मात् धातोः' नवः स्तव्यः- स्तवनम्) अलीनाम् इयं आला, आला चासौ भा च कान्तिः ता (ताम्) लाति गृह्णाति चमर (भ्रमर) कान्ति सदृश इत्यर्थः (आल-भा-ल) // 5 // कल्याणमालाकरणाधिहारी कल्याणमालाऽकरणाऽऽधिहारी / कल्याणमालाऽकरणाधिहाऽरीकल्याणमाऽऽलाकरणाऽधि हारी // 6 / / 1. कल्याणश्रेणिकरणेन अधिहारी-रम्यः / 2. स्वर्णस्य मा-लक्ष्मीः तस्या ला ग्रहणम् न करोति नीरागत्वात् / (कल्याण-मा-ला-अकरण)। 3. आधि: चित्तपीडा तां हरति इत्येवंशीलः / आधि-हारी / 4. कल्यः प्रधान: आणः तं मलति धारयति कल्याणमाला: (कल्य-आण-माल)। 5. लं (अकम्) अदुःखं (दुःखम्) रणः सङ्ग्रामः तौ अधिजहाति / (अक-रण-अधिहअकरणाधिह)। 6. अरिश्चासौ इ: काम: तस्य कल्यर्थं सङ्ग्रामार्थं आण: शब्द: सिंहनादः तम् मनोति (मिनोति) विनाशयति सः (अरि-इ-कलिआण-म - अरीकल्याणम) / 7. आलम् अलीकदानम् आ सामस्त्येन न किरति क्षिपति स (आल-आ-करण -- आलाकरण) / 8. बुद्धिरहितं यथा भवति सः (अधि)। 9. हारधारी (हारी-हारः यस्य अस्ति हारी) वीतरागत्वात्। (वीतरागो हारं धारयति तथापि तत् तस्य धारणम् , अधि-अनासक्तवृत्त्या अत एव अधि-बुद्धिरहितम्) // 6 // इत्थं स्तुतं यमकैरवेन्दुं चारूपभूमिरमणीरमणीयहारम् / श्रीपार्श्वनाथजिनयं जिनपद्मयाऽऽढ्यं ध्यायामि भावसहितं सहितं समन्तात् / / 7 / / 1. यमानि एव कैरवाणि (यमाः महाव्रतानि) (प्रेषक : आ. विजयप्रद्युम्नसूरि) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5