Book Title: Bhavana Sataka
Author(s): A S Gopani, Dharmshila Mahasati, Girishkumar P Shah Pandit
Publisher: Labhubhai P Mehta

Previous | Next

Page 143
________________ (४) माध्यस्थ्य - भावना राग - भैरवी । ताल - त्रिताल । माध्यस्थ्येऽहो कोऽप्यपूर्वो रसः ।। ध्रुवपदम् ॥ रागद्वेषान्दोलनजनकाः । प्रचुरा भुवि पदार्थाः ॥ समयं सौख्ये समयं दुःखे । भ्रामयन्ति जनसार्थान् ॥ माध्यस्थ्ये० ॥१॥ स्याद्यदि किञ्चित्स्थायि वस्तु । तत्र रुचिः स्यादुचिता ॥ नास्ति स्थिरं किञ्चिदपि दृश्यं । तस्मात्स्यात् साऽनुचिता ॥ माध्यस्थ्ये० ॥२॥ पुद्गलमात्रं परिणतिशीलं । द्वेष्यं भवति रोच्यम् ॥ नातो द्वेषः कार्यः कदापि । नापि मनसा शोच्यम् ॥ माध्यस्थ्य० ॥३॥ पुरुषा अपि परिवर्तनशीला नैकस्वभावाः सन्ति ॥ धर्मिणोऽपि भवन्त्यधर्मिणस्ते धर्मिणो भवन्ति ॥ माध्यस्थ्ये० ॥४॥ 122 - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150