Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 6
________________ श्रीमद्वीसलदेव देवरमणीवृन्दे त्वदायोधन___ प्रेक्षाप्रक्षुभिते विमुञ्चति परीरम्भान रम्भा हरिः ॥ त्वत्प्रारब्धप्रचण्डप्राधननिधनितारातिवीरातिरेक___ क्रीडत्कीलालाकुल्यावलिभिरलभत स्पदसा(?)कन्दमुर्छ । दम्भोलिस्तम्भमास्वद्भुजभुजग..."द्भर्तुराभर्तुरेनां तेनायः(१) मूर्ति रत्नातिततिमिषतः शोभते शोणभावः ॥' रञ्जिता सभा । प्रीणितः/पृथ्वीपालः । ततो राज्ञा प्रोक्तम्-'यूयं कवीन्द्राः श्रूयध्वे ।' अमरोऽभिधत्ते–'सत्यमेव यदि गवेषयति देवः ।' ततो नृपेण सोमेश्वरदेवे दृष्टिः संचारिता । ततः सोमेश्वरेण समस्यार्पिता । यथा-'शीर्षाणां सैव वन्ध्या मम नवति. १. अयं सोमेश्वारदेव एव वीरधवले राजनि, वस्तुपाले चामात्ये सति गुरेश्वरपुराोहतपदभाक् कीर्तिकौमुदीकाव्यं सुरथोत्सवं काव्यं चं निर्मितवान्. तथा च सुरथोत्सवे कविप्रशस्तिवर्णनात्मकः पञ्चदशः सर्गः 'अस्ति प्रशस्ताचरणप्रधानं स्थानं द्विजानां नगराभिधानम् । कर्तुं न शक्नोति कदापि यस्य त्रेतापवित्रस्य कलिः कलङ्कम् ॥१॥ सत्तीर्थस्य सुराश्रितेन जगता यस्योपमा स्यात्कथं स्वाध्यायैकनिधेर्गतेश्रुतिवृतेनोर्वीतलेनापि वा । यत्सौधेषु विशुद्धिवर्जितवपुर्बालोऽपि नालोक्यते | वन्दे श्रीनगरं तदेतदखिलस्थानातिरिक्तोदयम् ॥ २॥ हृतनयनसुखैर्मखाधिधूमैः श्रुतिकटुभिर्बटुवृन्दवेदपाठैः। कलिरकलितसंमदः प्रदत्ते न खलु पदं विदुषां गृहेषु यत्र ॥ ३ ॥ चश्चत्पञ्चमखाग्निभनतमसि स्थाने त्रिनेत्रानल ज्वालाप्रज्वलितप्रसूनधनुषा देवेन दत्तोदये। श्रीमत्तां च पवित्रतां च परमामालोकयन्तः सुराः स्वर्वासेऽप्यरसा रसामरजनव्याजेन भेजुः स्थितिम् ॥ ४ ॥ तस्मै संयमिनामिनाय मुनये नित्यं नमस्कुर्महे __ यन्माहात्म्यमसह्यमाह स मुहुर्मुह्यन्मनाः कौशिकः। आविर्भूतमभूतपूर्वचरितश्रेष्ठाद्वसिष्ठात्ततः ___ सत्कर्मोद्धरमध्वरस्थिति विदां स्थानेऽत्र गोत्रं महत् ॥ ५॥ १. इदं तु प्रोफेसर-आबाजी-विष्णु-काथवटे-महाशयैः संशोध्य प्रकाशितमेव. २. काव्यप्रकाशटीका, काव्यादर्शः, रामशतकम्, इति ग्रन्थत्रयमपि सोमश्वरदेवकृतं Catalogus Catalogorum पुस्तके डॉक्टर-थिओडोर-ऑफेक्ट-महाशयैः प्रदर्शितम्. ३. 'आनन्दपुरम्' इति टिप्पणी. ४. देवाः, मदिरा च. ५. सर्पाः, वेदभ्रष्टाश्च. ६. भूदेवाः. ७. स्वामिने, सूर्याय च. ८. विश्वामित्रः, उलूकश्च.

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 512