Book Title: Anandghanpad Sangraha Bhavarth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५४४)
प्रशस्तिः श्रुत्वानन्दघनाख्यसद्यतिपदव्याख्यामिमां शोभनां सर्वे सन्तु दयायुता ऋतयुता अस्तेयशीलश्रिताः ॥ त्यक्त्वा दुर्ममतां तपोव्रतधरा धर्मक्रियातत्परा । गांभीर्यादुदितं यदत्र विपरीतं तत्क्षमध्वं बुधाः ॥ १॥ तस्प्रोक्तस्य पदामृतस्य च शुभां वृष्टिंसदा सजनास्तन्वन्त्वत्र प्रशस्यते स समयो व्याख्यास्वतीतस्तु यः॥ सत्यस्य स्वनुमोदनां विदधतु प्रेम्णा युता बन्धवः सत्यं पल्लवयन्तु सजनवरा दृष्टया ह्यनेकान्तया ॥२॥ सच्छास्त्रेषु निवेदितं रविसमं ज्ञानं तथा सस्क्रियामादृत्य व्यवहारनिश्चययुता धर्मक्रियामाश्रिताः ॥ नित्यं सन्तु जनाः स्वधर्मनिरता धर्मोन्नतिर्जायतामात्मश्रेयसि जैनशासनसमुन्नत्यां मतिर्जायताम् ॥ ३ ॥ अष्टपञ्चात्तशमेऽभूच्छीमहावीरपट्टके ॥ श्रीहीरविजयः सूरिस्तपागच्छशिरोमणिः ॥ ४ ॥ तच्छिष्यः सहजाध्याख्य उपाध्यायोऽभवन्महान् ॥ श्रीनेमिसागराख्योऽभूत्तत्परम्परया सुधीः ॥५॥ शिथिलाचारनाशाय क्रियोद्धारं चकार यः॥ रविसागरसाधुस्तत्प? धर्मप्रकाशकृत् ॥ ६ ॥ तदाचारो जैनसङ्घ प्राकाशत सुशोभनः ॥ एकसप्ततपट्टेऽस्ति साधुः श्रीसुखसागरः ॥ ७ ॥ संयमात्युपयोगेन धर्मसक्रियया च यः॥ संयमिष्वग्रगण्यः स्वाचाराजनैः प्रशस्यते ॥ ८॥ सागराभिधसङ्घट्टे तपागच्छे गुणालये ॥ द्वासप्ततितमे पट्टे जैनशास्त्रादिवेदिना ॥ ९ ॥ तच्छिष्येण मया भव्या बुद्धिसागरसाधुना ॥ आनन्दघनसेवायै भाषारचितटीकया ॥१०॥ पद्यभावार्थवृत्तिर्वै रचितेयं यथामति ॥
शुभाय भूयाच्छ्रोतॄणां वक्तृणामनुमोदिनाम् ॥ ११ ॥ इति श्रीजैनधर्मधुरंधरक्रियोद्धारक श्रीनेमिसागरमुनिवरस्तच्छिष्ययतिवर क्रियापात्रचारित्रचूडामणि श्रीरविसागरमहाराजस्तच्छिष्य सद्गुरु चारित्रमार्गदीपक शान्तमूर्तिश्रीसुखसागरस्तच्छिष्य योगनिष्ठमुनिबुद्धिसागररचितानन्दघनपदभावार्थभाषाविवृतिः समाप्ता ॥ ॐशान्तिः शान्तिः शान्तिः ॥ सं. १९६८ पादरा अक्षयतृतीया.
समाप्त.
For Private And Personal Use Only

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812