Book Title: Alphabetical Index of Sanskrit Manuscripts in Rastriya Vidhapith Tirupati
Author(s): K I Govindan
Publisher: Rashitrya Sanskrit Vidyapitham

Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः उपोद्धातः भारतवर्षोऽयं मन्त्रद्रष्टभिः साक्षात्कृतधर्मभिः महर्षिभिरध्युषितः परम्परागतवेदतदङ्गशास्त्रपठनपाठनपटुभिः सदाचारसंपन्नैश्चोपभूषितः अखिलमहीमण्डलमण्डनायमानः भूखण्डे अखण्डं स्थानं लभमानः अस्ति । उक्तं च नैषधे - ‘वर्षेषु यद्भारतमार्यधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु' इति । तत्र कारणं किमिति जिज्ञासायां देशस्यास्य संस्कृतिरेव। सा च संस्कृतिः पूर्वतनानाम् आचारेण, अनुष्ठानेन, अमूल्यतत्त्वानां बोधनेन, ग्रन्थप्रणयनेन च अद्यापि विद्योतते । प्राचीनकाले वेदादिकम् आचार्योच्चारणान्तेवास्यनूच्चारणेन अधीयमानमासीत् । कस्यापि ग्रन्थस्य लेखनं, तद्द्वारा परिरक्षणं वा न क्रियते स्म । गच्छता कालेन पण्डिताः स्वस्वमस्तिष्के समुद्भूतान् नूतनविचारान् विलिख्य रक्षितुं प्रवृत्ताः । तेन मन्दमतयोऽपि शास्त्रीयविषयधारणेऽसमर्थाः पौनःपुन्येन लिखितान् ग्रन्थान् दृष्ट्वा तत्रत्यविषयाणां धारणमकार्षुः । तत्राप्यादौ देशस्य ऐतिहासिकान् विषयान् शिलायां, तदनु कार्पासनिर्मितपटेषु, ततः भूर्जतालपत्रादिषु पश्चात् हस्तविनिर्मितपत्रेषु (Handmade Paper)च विलिख्य परवर्तिनामस्माकं महान्तमुपकारमकार्षुः । एतादृशहस्तलिखितग्रन्थावलोकनेनैव देशस्य प्राचीनेतिहासः, प्राचीनकलाः, पुरातनमहर्षीणामभिसन्धयश्च विदिताः भवन्ति । __ हस्तलिखितग्रन्थाः (Manuscripts) भारतीयपारम्परिकसंस्कृतेः कश्चनानघः अंशः । प्राचीनाः विद्वांसः समग्रमपि जीवनं स्वाधीतशास्त्रसंरक्षणाय हस्तलेखनद्वारा समार्पिपन् । हस्तलिखिता ग्रन्थाः मठमन्दिरराजसभासु संगृह्य रक्षिताः आसन् । एवं लेखनायोपयुक्तं वस्तु मातृका, हस्तलेखः, पाण्डुलिपिः इति अनेकप्रकारैः व्यवह्रियते । तालपत्रादिषु ग्रन्थानां हस्तेन लेखने सत्स्वनेकेषु प्रयोजनेषु प्रधानतया पञ्चप्रयोजनानि वक्तुं शक्यन्ते । तानि च स्वार्थं - परार्थं - राजादीनामादेशार्थं - भगवत्प्रीत्यर्थं - दानार्थम् इति । तत्र स्वार्थं स्वस्य प्रयोजनाय अध्ययनाय इत्यर्थः । TMSSM कोशालये AD १३४९६ संख्याकस्य गृहोक्तवास्तुशान्तिग्रन्थस्य पुष्पिकायामित्थं लिखितम् - 'इदं पुस्तकं महादेवभट्टेन लिखितं स्वार्थम्' । परेषां प्रयोजनाय अध्ययनाय पठनाय वा यल्लिखितं तत्परार्थमित्युच्यते । TMSSM Library मध्ये आदित्यभट्टकृतः कालादर्शाख्यग्रन्थः AD १८५७५ संख्याङ्कितः अस्ति । तत्र पुष्पिकानन्तरं 'शके १५९० (AD १६६८) कीलकाब्दे माधवे मासि महाबलेश्वरशिवभट्टात्मजमल्लादिभट्टेन परोपकारार्थमिदं लिखितम्' इति । स्वदेशेऽनुपलब्धान् देशान्तरे उपलभ्यमानान् ग्रन्थान् पठनपाठनाय प्रजानां सौकर्यार्थं विदुषः आज्ञाप्य शरभभूपालः तैः विलेख्यानाययति स्म । TMSSM Library मध्ये D५५१५ संख्याङ्किता भट्टोजिदीक्षितविरचिता सिद्धान्तकौमुदी अस्ति । तत्र पुष्पिकानन्तरं - 'स्वस्तिश्रीनृपशालिवाहनशके १७२६ (AD १८०४) रक्ताक्षिनामसंवत्सरे उत्तरायणे हेमन्तौ पुष्यमासे कृष्णपक्षे त्रयोदश्याम् इन्दुवासरे दिवाद्वादशघटिकासमये तदा मेषलग्ने श्रीमत्तञ्जपुरभूपालानुज्ञया काशीविश्वनाथसंनिधौ इदं पुस्तकं लिखितम्' इति दृश्यते। D२७७८ संख्याङ्कितं रघुवंशमहाकाव्यमस्ति । तत्र पुष्पिकाऽनन्तरं 'स्वस्ति श्रीनृपशालिवाहनशके १७३४ (AD १८१२) अङ्गिरोनामसंवत्सरे कार्तिकमासे कृष्णपक्षे पञ्चम्यामिन्दुवासरे लिखितम् । शरभेन्द्रमहीनेतुराज्ञया बुधसन्नुतः । रघुवंशमहाकाव्यं सखभट्टो व्यलीलिखत् ॥' इति शरभराजाज्ञया लिखितमिति स्पष्टं दृश्यते । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 246