Book Title: Agam Sutra Satik 16 Suryapragnapati UpangSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ वक्तव्यं १६ । भू. (७) सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/६ चयमोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९ । अनुभावे के व संवुत्ते २०, एवमेयाइं वीसई ॥ वृ. सप्तदशे चन्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया वक्तव्यः १७, अष्टादशे चन्द्रादीनां समतलाद्भूद्भागादूर्ध्वमुच्चत्वं यावति प्रदेशे व्यवस्थितत्वं तत्स्वमतपरमतापेक्षया प्रतिपाद्यं १८, एकोनविंशतितमे कति सूर्या जम्बूद्वीपादावाख्याता इत्यभिधेयं १९, विंशतितमे कोऽनुभावश्चन्द्रादीनामिति २० । एवमनन्तरोक्तेन प्रकारेण एतानि अनन्तरोदितार्थाधिकारोपेतानि विंशति प्राभृतान्यस्यां सूर्यप्रज्ञप्तौ वक्तव्यानि । [ से तं पाहुड संखा ।] वृ. अथ प्राभृतमिति कः शब्दार्थ ?, उच्यते, इह प्राभृतं नाम लोकप्रसिद्धं यदभीष्टाय देशकालोचितं दुर्लभं वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षेणासमन्ताद् नियते - पोष्यते चित्तमभीष्टस्य पुरुषस्यानेनेति प्राभृतमिति व्युत्पत्तेः, 'कृद्बहुल' मितित वचनाच्च करणे क्तप्रत्ययः, विवक्षिता अपि च ग्रन्थपद्धतयः परमदुर्लभाः परिणामसुन्दराश्चाभीष्टेभ्यो-विनयादिगुणकलितेभ्यः शिष्येभ्यो देशकालौचित्येनोपनीयन्ते ततः प्राभृतानीव प्राभृतानि, प्राभृतेषु चान्तरगतानि प्राभृतप्राभृतानि, तदेवमुक्ता विंशतेरपि प्राभृतानामर्थाधिकाराः । सम्प्रति प्रथमे प्राभृते यान्यपान्तरालवर्त्तीन्यष्टौ प्राभृतप्राभृतानि तेषामर्थाधिकारान् उपदिदिक्षुराह -: प्राभृतं - १ प्राभृतप्राभृतं -१ : वड्डोवड्डी मुहुत्ताण १ मद्धमंडल संठिई २ । के ते चिन्नं परियरइ ३ अंतरं किं चरंति य ४ ॥ पू. (८) वृ. प्रथमस्य प्राभृतस्य सत्के प्रथमे प्राभृतप्राभृते मुहूर्त्तानां दिवसरात्रिगतानां वृद्धयपवृद्धी वक्तव्ये १, द्वितीयोऽर्द्धमण्डलस्य द्वयोरपि सूर्ययोः प्रत्यहोरात्रमर्द्धमण्डलविषया संस्थिति-व्यवस्था वक्तव्या २, तृतीये तव मतेन कः सूर्य कियदपरेण सूर्येण चीर्णं क्षेत्रं प्रतिचरतीति निरूप्यं ३, चतुर्थे ३, चतुर्थे द्वावपि सूर्यौ परस्परं कियत्परिमाणमन्तरं कृत्वा चारं चरत इति प्रतिपाद्यं ४ । उग्गाहइ केवइंय ५, केवतियं च विकंपइ ६ । मंडलाण य संठाणे ७, विक्खंभो ८ अड्ड पाहुडा ।। मू. (९) [ से तं पढमे पाहुडे पाहुडे पाहुड संखा ] बृ. पञ्चमे कियत्प्रमाणं द्वीपं समुद्रं वाऽवगाह्य सूर्यश्चारंचरतीति ५, षष्ठे एकैकेन रात्रिन्दिवेन एकैकः सूर्य कियत्प्रमाणं क्षेत्रं विकम्य-विमुच्य चारं चरतीति ६, सप्तमे मण्डलानां संस्थानमभिधानीयं ७, अष्टमे मण्डलानामेव विष्कम्भो - बाहल्यमिति ८ । एवमर्थाधिकारसमन्वितानि प्रथमे प्राभृते अष्टौ प्राभृतप्राभृतानि । सम्प्रति प्रथम एव प्राभृते चतुरादिषु प्राभृतप्राभृतेषु यत्र यावत्यः प्रतिपत्तयः परमतरूपास्तत्र तावतीरभिधित्सूराह भू. (१०) छप्पंच य सत्तेव य अट्ठ तिन्नि य हवंति पडिवत्ती । Jain Education International पढमस्स पाहुडस हवंति एयाउ पडिवती ॥ { से तं पढमे पाहुडे पाहुड पाहुड पडिवत्ति संखा ] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 336