Book Title: Acharya Samantabhadra Author(s): Darbarilal Kothiya Publisher: Z_Darbarilal_Kothiya_Abhinandan_Granth_012020.pdf View full book textPage 3
________________ आचार्य सामन्तभद्रका प्रभाव कवीनां गमकानां च वादीनां वाग्मिनामपि / यशः सामन्तभद्रीयं मनिचुडामणीयते / / अवटु-तटमटति झटिति स्फुट-पटु-वाचाट-धूर्जटेजिह्वा / वादिनि समन्तभद्रे स्थितिवति का कथाऽन्येषाम् / / पूर्वं पाटलिपुत्र-मध्यनगरे भेरी मया ताडिता पश्चान्मालव-सिन्धु-ठक्क-विषये कांचीपुरे वैदिशे। प्राप्तोऽहं करहाटकं बहुभटं विद्योत्कटं संकटं वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितम् / / वन्द्यो भस्मक-भस्मसात्कृतिपटुः पद्मावतीदेवतादत्तोदात्तपद-स्वमन्त्र-वचन-व्याहूत-चन्द्रप्रभः / आचार्यस्स समन्तभद्र-गणभृद् येनेह काले कलौ जैनं वम समन्तभद्रमभवद्भद्रं समन्तान्महः / / कांच्यां नग्नाटकोऽहं मलमलिनतनुलाम्बुशे पाण्डुपिण्डः पुण्ड्रोड्रे शाक्यभिक्षुः दशपुरनगरे मिष्टभोजी परिव्राट् / वाराणस्यामभूवं शशधरधवलः पाण्डुरांगस्तपस्वी राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैन-निर्ग्रन्थवादी / / आचायोंहं कविरहमहं वादिराट् पण्डितोहं दैवज्ञोहं भिषगहमहं मान्त्रिकस्तान्त्रिकोहं / राजन्नस्यां जलधिवलयामेखलायामिलायामाज्ञासिद्धः किमिति बहना सिद्धसारस्वतोह / / -420 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3