SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ w कल्पमुक्तावल्यां प्रथम व्याख्याने सौधर्मेन्द्र अधिकारः // 39 // BE | वच्चं पोरेवच्चं सामित्तं भदित्तं महत्तरगत्तं आणाई, सरसेगावच्चं कारेमाणे पालेमाणे महयाहयनट्ट गीयवाइ अतंती तलतालतुडिय घणमुइंग, पडुपडहवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ // 14 // व्याख्या-सहस्राक्ष:-इन्द्रस्य पञ्चशतदेवा मन्त्रिणः सन्ति-अतः पञ्चशतदेवमन्त्रिनेत्राणि शक्रस्यैव कार्याणि कुर्वन्ति अत स्तत्सम्बन्धित्वेन सहस्राक्ष उच्यते॥ मघवानिति, महामेघा वा मघनामा देवविशेषो वशे यस्यासौ मघवान् पाकशासनः) पाको नाम दैत्यस्तस्य शास्ता-इति दक्षिणार्धलोकाधिपतिः उत्तरलोकार्द्धस्य-ईशान स्वामिकत्वात्. तथा-ऐरावणवाहनः-सुरेन्द्रो द्वात्रिंशल्लक्षविमानाधिपतिः-अरजोऽम्बरवस्त्रधरः-धूल्यादिरहिताकाशवत्स्वच्छवस्त्रधारीत्यर्थः-यथास्थानपरिहितमालामुकुटः॥ तथा नवहेमचारुचित्रचञ्चलकुण्डलविलिख्यमानगलः अर्थात्नवीन सुवर्णनिर्मितैः कुण्डलैघर्षमाणगलस्थानो यस्येति तथा महर्द्धिस्तथा महाधृतिः-महाबलो महायशाः-महानुभावःमहासुखः-भासुरशरीरः-तथा-पादपर्यन्तप्रलम्बमानपञ्चवर्णपुष्पमालाधारी-इन्द्रः-एवम्भूतः सन्-सौधर्मे कल्पे सौधर्मावतंसकविमाने सुधर्मायां सभायां शक्रनामकसिंहासने स्थितः सन्-अर्थात्-किकुंर्वन् सन् विहरति-इत्यत आह-स इन्द्रस्तत्र देवलोके द्वात्रिंशद्विमानावासशतसहस्त्राणाम् द्वात्रिंशल्लक्षविमानानामित्यर्थः-३२०००००-चतुरशीतिसामानिकदेवसहस्राणाम् 84000 तथा गुरुस्थानीयपुरोहितसमानत्रयात्रिंशत्त्रायत्रिंशकदेवानाम्-सोमयमवरुणकुबेरचतुर्लोकपालानाम् तथा पद्मा 1 शिवा 2 शची 3 अञ्जु 4 अमला 5 अप्सरो 6 नवमिका 7 रोहिणी 8 इत्यमिधानानामनमहिषीणां सपरिवाराणां प्रत्येकं षोडशसहस्रपरिवाराणां तथा बाह्यमध्यमाभ्यन्तररूपत्रिपर्षदाम्-गन्धर्व 1 नाटक 2 अश्व 3 गज 4 रथ 5 सुभट 6 वृषभ 7 रूपाणां सप्तानामनीकानाम् सैन्यानामिति-भवनपत्यादीनाम् वृषभस्थाने महिषा भवन्ति तथा सप्तानां सेनापतीनाम् तथा चतसृषु दिक्षु प्रत्येकं-चतुरशीति सहस्रप्रमाणात्मरक्षकदेवानाम् सर्वसङ्ख्यया 336000 तथा न्येषां बहूनां सौधर्मकल्पवासिनाम् देवानां देवीनाम् तथोपरोक्तकथितपरिवाराणामिन्द्रो // 39 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy