SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्यां श्रीसमाचारि 467 // आर्येण साधुना उत्सर्गतो लुश्चितशिरोजेन अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् प्रक्षाल्य केवलं तत्र, प्रामुकोदकतः शिरः, नापितस्यापि तेनैव, क्षालयति तथा करौ // 9 // कारयितुं क्षुरेणापि, यश्च व्रणादिमच्छिराः, असमर्थोऽस्य केशाच, कता हि विधीयताम् // 10 // तथा पक्षे पक्षे संस्तारकदवरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याश्च इत्यर्थः-अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं वर्षासु विशेषतः तथा असहिष्णुना मासि मासि मुण्डनं करणीयं यदि च कर्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं क्षरकर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यलघुगुरुमासलक्षणं ज्ञेयं तथा पाण्मासिकः लोचः तथा स्थविराणां वृद्धानां जराजर्जरत्वेनासमाद दृष्टिरक्षार्थ च साम्वत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति-अथात तरुणानां चातुर्मासिक इति // 57 // मू-पा-वासावास पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए जेणं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयइ से णं अकप्पेणं अज्जोवयसित्ति वत्तवेसिया जे णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयइ से णं निज्जूहियवे सिया // 58 // व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च पर्युषणातः परं अधिकरण राटिस्तत्करं वचनमपि अधिकरणं तद् वक्तुं न कल्पते / यश्च साधुः साध्वी वा पर्युषणातः परं अज्ञानात् क्लेशकारिव 467 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy