SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु. कावल्यां सिद्धार्थकृत जन्मोत्सवः मुदितनृपनृचित्ते, यौवराजाभिषेके, त्वपरनृपतिदेशा-मर्दने कीर्तिधाम्नि // अपि च तनयजन्मप्रोत्सवे चारूदृश्ये / भवति झटिति मोक्षो बन्धनात्तस्करादेः // 15 // तथा मानोन्मानवर्धनं कुरुत (रसधान्यतोलनादिवस्तुवर्धनं कुरुत इति / कृत्वा च अभ्यन्तरे तथा बहिश्च ययोक्तविशेषणविशिष्टं कुण्डपुरनगरं शीघ्रमेव यूयं कुरुत-अन्येभ्यश्च कारयत-इति किम्विशिष्ट नगरं कुरुत-इत्याह प्रथमम्-आसिक्तम् अर्थात् सर्वत्र प्रधानमार्गेषु सुगन्धजलसिञ्चनेन भूमि दर्शनीयां सुखदाश्च कुरुत तथा सम्मार्जितोपलिप्तञ्च कुरुत-कचवरापनयनेन गोमयलेपनेन च विशुद्धं कुरुत इति / पुनः-शुक्राटक-त्रिक-चतुष्क-चत्वर-चतुर्मुखमहापथेषु सिक्तानि-सिश्चितानि तथा शुचीनि वेत्राणि तथा संमृष्टानि (कचवरापनयनेन-समीकृतानि रथ्यान्तरापगवीथयः-मार्गमध्वानि / हट्टमार्गाच एवम्-सिक्तशुचिसंमृष्टरथ्यान्तरापणवीथिकम् इति सामूहिकोऽर्थः पुनः- मश्चातिमश्च-कलितम् अर्थात् तत्रागतजनोपवेशनार्थकृतमञ्चोपरिमञ्चयुक्तमिति) पुनः- नानाविधरागभूषितध्वजपताकामण्डितम् (स्पष्टमेव) पुनः-छगणखडिकादिमहितम् / अर्थात् छगणादिलेपकरणेन तथा खट्टिकादिभिः-भीत्यादौ धवलीकरणेन च अतीव रमणीयं नगरं कुरुत इति / पुनः-गोशीर्षसरसरक्तचन्दनदर्दददत्तपश्चागुलितलम्(चन्दनरक्तचन्दनपर्वतजायमानचन्दनैः- भीत्यादौ दत्ता-हस्तपश्चाङ्गुलिचिढ़ा यस्मिंस्तत् तादृशं नगरं कुरुतइति / पुनः- उपनिहितचन्दनकलशम् अर्थात् गृहान्तरेषु गृहाङ्गणेषु मङ्गल-कलश-विशिष्टनगरं कुरुत // 163 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy