SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ H I-III NIFICATile // 13 // // 14 // // 15 // सर्वसाधारणत्वेन तस्य विस्मयकारिणः / उवाह महदाश्चर्य ऋतुपर्णस्तथापि हि पार्थिवैः प्रेरितः सर्वैर्निजभक्त्या च शुद्धया / व्यजिज्ञपत् कदाचित् तं भार्गसूरिरधीश्वरम् देव ! दिष्टथा जगद्भाग्यैकसुधादानदायिभिः / हत्वा कलितमःस्तोमं त्वमिन्दुरुदितः पुनः समानेष्वपि सर्वेषां त्वत्प्रसादेषु पार्थिव ! | सर्वशेषमिवात्मानं मन्ये सुकृतिनं पुनः रसातलं बलितो वामनत्वेऽनुरागिणा / त्वयाहं कुब्जरूपेण विश्वस्योपरि दर्शितः दत्से यथा तथा वा त्वं भृत्येभ्यो देव ! गौरवम् / सर्वत्र ललिता वृत्तिरचिन्त्यचरितस्य ते प्रायः प्राकाम्यशक्या त्वमित्थं क्रीडसि निर्भरम् / दर्शयन् सर्वभावेषु सर्वत्र त्वमिवात्मनः नास्त्येव तव विद्वेपो विरुद्धेष्वपि केषुचित् / स्वतत्रतैकपात्रेषु स्ववयस्येषु किं पुनः नूनमज्ञानभावेन न दोषः कोऽपि कस्यचित् / स्वामिन्ननुनयत्येष तथापि त्वामयं जनः प्रसीद कुरु वेगेन देव ! दिग्विजयश्रमम् / नृपा विज्ञपयन्ति त्वामहं च त्वत्पुरःसरः वहन्तु त्वबलाश्वीयखुरक्षुभितपांशुभिः / अकालफाल्गुनक्रीडाविभ्रमं दिकपुरन्ध्रयः सन्तु त्वद्दर्शनानन्दबाष्पनिष्पन्दवृष्टिभिः / आर्यावर्त्तस्य लोकानां प्रदेशा देवमातृकाः इति विज्ञापितस्तेन स्तनयित्नुजिता गिरा / गिरिवद् विदधे धीरं प्रतिशब्द धराधिपः अयोध्याधिपते ! सर्वमिदं कर्त्तव्यमेव मे / श्रुतशीलः समागच्छन् केवलं प्रतिपाल्यते // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // IIIIIIIIIIIIIIle II AISHI A
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy