________________ ससमे. // 49 // सर्गः२ पश्यत्युञ्चनलविलसितं व्योम्नि नक्षत्रनेत्रैर्मन्दं मन्दं पुरपरिसरं प्राप सस्यन्दनोऽपि निःशङ्करकुषु निरङ्कुशकौशिकेषु निःकूजपक्षिषु निरन्तरपादपेषु / निस्तन्द्रचन्द्रकिघनेषु वनेषु तेषां मिष्टा रथोदरजुषामजनिष्ट गोष्ठी अद्याप्यस्ति प्रथमरजनीयातमेकं मुहूर्त वर्त्तन्तेऽमी शिरसि बहलाः सान्द्रचन्द्रातपा भूः। शीतो वायुः सुरभिरभितो धेनवः पिङ्गलानां यातुः श्रेष्ठं तदिति जगदुस्ते मिथः स्यन्दनस्थाः इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे प्रथमः सर्गः॥१॥ दूतमुखात् मीमजाया स्वयम्वरं ज्ञात्वा चलितः // 16 // FIRIII-II-IIIIIIIII Bाल सप्तमे स्कन्धे द्वितीयः सर्गः। अथोवाच नृपः कुब्ज नोदयाश्वान् द्रुतं द्रुतम् / न गम्यं लीलया सार्द्ध योजनानां शतद्वयम् कुब्जोऽप्युवाच मा राजन् ! विषीद मयि यन्तरि / मम प्रेरयतो वाहानसौ करतलं मही कियत् तत् कुण्डिनं नाम यत्र यामेन गम्यते / अनास्थ्यमूल एवायं प्रमादः प्रेरणे मम तदाश्व ! प्रगुणीभूय पूरयामि रतिं तव / इति स प्राजनोत्क्षेपं मुक्तरश्मिरनोदयत् तलो न गिरयो गर्चा न कम्पो न च वालुका / न नद्यो न नदोद्देशा न तृणानि न वीरुधः // 2 // // 4 // // 16 //