________________ FI AISI ASSIGATHI ATHI NI समं मखभुजां रुषा वपुषि मे विनाशं गते समं मम मनोरथैर्विदलितेषु मे बन्धुषु / भवन्तु जगतीजुषः सकलसौख्यभाजः प्रजाः सतां हृदयदाहिना किमिह जीवितव्येन में ? // 32 // तदतिशयसदुःखं साभिमानं सशर वचनमिदममुष्या वैरसेनिर्निशम्य / निजमनसि निकामं विस्मयव्याकुलोऽभूदमरपतिविधेयात्यन्तचिन्तापरोऽपि // 33 // कश्चिद् नवो मधुरिमाऽभिनवं सुशीलं प्रेमाप्यहो! मयि च किञ्चिदपूर्वमस्याः। किं महे तदिह भीमभुवः प्रतिष्ठां ? नेयं प्रयाति विकृतिं हि भवान्तरेऽपि // 34 // एतां विहाय भुवि कैव बभूव सा स्त्री यस्यां स्वयं सुरवरैर्विहितोऽनुरागः / स्वोपज्ञकान्तरसमाविकया कया वा ? शक्रादयोऽपि गणिता न हि याचितारः // 35 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे चतुर्दशः सर्गः // 14 // ISIII-IIEISIIIIIEITIE द्वितीये दुत्यस्कन्धे पञ्चदशः सर्गः / इति चेतसि सञ्चिन्त्य मुद्यां काठिन्यमुद्द्बहन् / एकान्तकृतदिक्पालपक्षपातं जजल्प स: वशीकृता नलेन त्वं यन्त्रमन्त्रादिभिर्बुवम् / निःशेषदेवनाथं यद्धरिं हित्वा नले रतिः // 2 //