________________ RECER प्रक्षेपात् 86 / ततो भवसिद्धिका विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् 87 // ततः सामान्यतो। निगोदजीवा विशेषाधिकाः, प्रत्येकानां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वेनाल्पत्वात् शेषाणां भव्यानामभव्यानां च बादरसूक्ष्मनिगोदेष्वेवातिप्राचुर्येण लभ्यमानत्वात् 88 ततः सामान्यतो वनस्पतयो विशेषाधिकाः, यतः प्रत्येकवनस्पतीनामपि तत्र प्रक्षेपात् 89 | ततः सामान्यत एकेन्द्रिया विशेषाधिकाः, बादरसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् 90 / ततः सामान्यतस्तिर्यञ्चो विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात्९१॥ ततो मिथ्यादृष्टयो विशेषाधिकाः, कतिपयाविरतसम्यग्दृष्ट्यादिव्यतिरेकेण सर्वजीवानां मिथ्यादृष्टित्वात् 92 / ततोऽविरता विशेषाधिकाः, अविरतसम्यग्दृष्टीनामपि तत्र क्षेपात् 93 / ततः सकषायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र क्षेपात् 94 / ततः छद्मस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र क्षेपात् 95 // ततः सयोगिनो विशेषाधिकाःसयोगिकेवलिनामपि तत्र प्रक्षेपात् 96 // ततो भवस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् 97 / सर्वजीवा विशेपाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् 98 // 12 // गुणतीसकतुल्ला मणुआ तेसि नरअहवीसंसे / इगरूवूण जहन्ना सेसा इत्थी उ गब्भभवा // 13 // 1 | पर्याप्तस्थूलवणादिसर्वजीवान्ताः सर्वेमध्यमानन्तके वर्तन्ते / “जहन्नपए संखिजा" इति जघन्यपदं नाम यत्र सर्वस्तो-14 Plका मनुष्याः प्राप्यन्ते किमत्र संमूर्छिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? गर्भजानां सदावस्थायितया तेषामेव ग्रहणं संमूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् / उत्कृष्टपदे तूभयेषामपि ग्रहणम् / एकं रूपं संस्थापयित्वा षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृते चैकोनत्रिंशदङ्करूपा मनुष्यसंख्या जघन्यपदे समेति “इगरूवूणजहन्ना" इति // 13 //