SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्रशासनं विलसत्यतितमाम् / भगवतांजिनेश्वराणां विरहकाले तेषां वचांस्युपजीव्यैवाराधना साध्या। यद्यपिशास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतां शास्त्राणामध्ययनार्थं पात्रतानिवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति / तदितररूपाणि शास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहयोगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीनगीताथैः स्वीकृता, केवलं निगूढरहस्यानांछेदसूत्राणांमुद्रणंनाहतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुट: सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणिसम्पादितानि। तत्परम्परायामिदंसम्पादनंस्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। ____ अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य / श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वयात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम्। श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्ग्रेन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy