________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1563 // 27 शतके उद्देशकः 1-11 सूत्रम् 818 करणाधिकारः ॥अथ सप्तविंशंशतकम् // ॥सप्तविंशशतके प्रथमादारभ्याएकादशान्ता उद्देशकाः॥ व्याख्यातं षड्विशंशतम्, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूतादि-8 कालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १जीवेणंभंते! पावं कम्मं किं करिंसु करेन्ति करिस्संति 1? करिंसुकरेंतिन करि० 21 करिंसुन करेंति करि० 3? करिंसु न करेंति न करेस्संति 4?, गोयमा! अत्थेगतिए करिंसु करेंति करि० 1 अत्थे० करिंसु करेंति न करि० 2 अत्थे० करिसुन करेंति करेस्संति 3 अत्थे० करिंसु न करेंति न करे० / 2 सलेस्से णं भंते! जीवे पावं कम्मं एवं एएणं अभिलावेणं जच्चेव बंधिसए वत्तव्वया सच्चेवल निरवसेसा भाणियव्वा, तहेव नवदंडगसंगहिया एक्कारस उद्देसगा भा०॥सूत्रम् 818 ॥२७-(१-११)॥करिंसुगसयं सम्मत्तं॥ जीवेण मित्यादि, ननु बन्धस्य करणस्य च कः प्रतिविशेषः?, उच्यते, न कश्चित्, तर्हि किमिति भेदेनोपन्यासः?, उच्यते, येयं जीवस्य कर्मबन्धक्रिया सा जीवकर्तृका न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थम्, अथवा बन्धः सामान्यतः करणं त्ववश्यं विपाकदायित्वेन निष्पादनं निधत्तादिस्वरूपमिति॥करिसुयसयं ति करिस्वि त्यनेन शब्देनोपलक्षितं शतं प्राकृतभाषया करिसुयसयं ति // सप्तविंशं शतं वृत्तितः परिसमाप्तमिति // 27 // व्याख्यातशतसमानं शतमिदमित्यस्य नो कृता विवृत्तिः / दृष्टसमाने मार्गे किं कुरुताद्दर्शकस्तस्य? // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ | सप्तविंशंशतकं समाप्तम्॥ // 15 3 //