________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1548 // 26 शतके उद्देशकः१ सूत्रम् 810-811 जीवादीनां पापबन्धादि नबध्नातिन भन्त्स्यतीति चतुर्थः क्षीणमोहमाश्रित्येति ॥१॥लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्माच्छुक्ललेश्यस्य पापकर्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गकद्वयम्, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्यद्वयाभावः, द्वितीयस्तु तस्य संभवति, कृष्णादिलेश्यावतः कालान्तरे क्षपकत्वप्राप्तौ न भन्त्स्यतीत्येतस्य सम्भवादिति, अलेश्यः- अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति // 2-4 // पाक्षिकद्वारे-कृष्णपाक्षिकस्याद्यमेव भङ्गकद्वयम्, वर्तमाने बन्धाभावस्य तस्याभावात्, शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्धवान् बध्नाति भन्त्स्यति च प्रश्नसमयापेक्षयाऽनन्तरे भविष्यति समये 1 तथा बद्धवान् बध्नाति न भन्त्स्यति क्षपकत्वप्राप्तौ 2 तथा बद्धवान् न बध्नाति चोपशमे भन्त्स्यति च तत्प्रतिपाते 3 तथा बद्धवान्न बध्नाति न च भन्स्यति क्षपकत्व इति 4, अत एव आह चउभंगो भाणियव्वो त्ति, ननु यदि कृष्णपाक्षिकस्य न भन्त्स्यतीत्यस्यासम्भवाद्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्यावश्यं सम्भवात्कथं तत्प्रथमभङ्गकः? इति, अत्रोच्यते, पृच्छानन्तरे भविष्यकालेऽबन्धकत्वस्याभावात्, उक्तं च वृद्धैरिह साक्षेपपरिहारं बंधिसयबीयभंगो जुज्जइ जइ कण्हपक्खियाईणं / तो सुक्कपक्खियाणं पढमो भंगो कह गेज्झो?॥१॥ उच्यते- पुच्छाणंतरकालं पइ पढमो सुक्कपक्खियाईणं / इयरेसिं अवसि8 कालं पइ बीयओ भंगो॥२॥ त्ति / P दृष्टिद्वारे-सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टिनामाद्यौ द्वावेव, वर्तमानकाले / बन्धिशते यदि कृष्णपाक्षिकाणां द्वितीयो भङ्गो युज्यते तदा शुक्लपाक्षिकाणां प्रथमो भङ्गः कथं ग्राह्यः? ||1|| पृच्छानन्तरकालं प्रतीत्य प्रथमः शुक्लपाक्षिकादीनाम् / इतरेषामवशिष्टं कालं प्रतीत्य द्वितीयो भङ्गः / / 2 / / // 1548 //