SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 7 // ॥सम्पादकीयम् (प्रथमभागात्पुनर्वृतम् ) // परमपरमेष्ठिनं श्री वीरस्वामिनं श्रीवीरस्वामिनःशासनरक्षक, प्रभावकं व्याख्यानवाचस्पतिं परमगुरुवर्य श्रीमद्विजयरामचन्द्रसूरीश्वरं गुरुवरञ्चसमतानिधिं परमसमाधिसाधकं मुनिप्रवरश्रीदर्शनभूषणविजयं नमस्कृत्यास्य ग्रन्थस्य सम्पादकीयं कथयामि। ___व्याख्याप्रज्ञप्तिरितीदंपञ्चमाङपूज्यत्वेन भगवती' इति विशेषेण प्रचलितमस्ति। अस्यशास्त्रस्य मनोरञ्जकतया घनोदारशब्दादिभिश्च समुन्नतजयकुंजरेण तदंगोपाङ्गालङ्कारादिभिश्च सहोपमा कृता / रिपुबलदलनाय हस्तिराज्ञो नायकरूपश्रीमहावीरमहाराजादेशादिव गुरुजनवचनाद्वृत्तिः कृतेति वृत्तिकारेण साम्यं दर्शितम्। तस्य मनोरञ्जकतया स्कंदकादिचरितं श्रुत्वा प्रतीयते / यथैकवारंप्रभुः कृतङ्गलानगर्यां समवसृतः / समीपे श्रावस्ती नगर्यभवत् / स्कन्दकतापसस्तत्र परिवसति / पिङ्गलकश्रावककृतेन प्रश्नेनोत्पन्नसंशयः प्रभुंप्रष्टुंप्रधारितवान् / प्रभु श्रीगौतमस्वामिनं कथितवान् यत्त्वमद्य पूर्वपरिचितं द्रक्ष्यसि / श्रीगौतमस्वामी पृच्छति तदा प्रभुरन्तरापथिवर्तमानमागच्छन्तं तं कथयति / प्रभुंवंदित्वा नमस्यित्वा श्रीगौतमस्वामी पृच्छति यत् सोऽनगारतां प्रतिपत्स्यति? हन्तेति प्रभुरुत्तरयति / श्रीगौतमस्वामी आगच्छन्तं तमादरं करोति / स प्रभुं पृच्छति, छिन्नसंशयः प्रव्रजति, गुणसंवत्सरंतपंतपस्यित्वा धमनीसंततो जातः / प्रभुणाऽभ्यनुज्ञातः पादोपगमनमनशनं प्राप्तः कालगतः / कुत्र गत इति पृष्टः प्रभुरच्युतकल्पे उपपातः सेत्स्यतीति कथयति / इत्यादिवदनेकवार्ता आश्चर्यकारिका वर्तन्ते / इदंसम्पादनमागमोदयसमितिद्वारा पूर्वप्रकाशित प्रत्यानुसारेण कृतमस्ति ।अन्य पाठान्तरा टिप्पण्यस्तथा प्रत्येकोद्देशे सूत्रेषु प्रश्नाङ्का इत्यादिपं० बेचरदास सम्पादित पुस्तकानुसारेण कृता वर्तन्ते / सूत्रेषु प्रश्नङ्कानुसारेण वृतौ उत्तराङ्का अपि दर्शिता वर्तन्ते। मुनिदिव्यकीर्तिविजयोगणिः। जयप्रेमसोसा० जैनोप्राश्रयः ज्येष्ठ सुक्ला द्वितीया विक्रम सं० 2064 वीर सं० 2534 ता. 05-06-2008 // 7 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy