________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 1073 // १रायगिह इत्यादि, किमाहार त्ति किमाहारयन्तीति किमाहाराः, किंपरिणाम त्ति किमाहारितं सत्परिणामयन्तीति किंपरिणामाः 14 शतके किंजोणीय त्ति का योनिरुत्पत्तिस्थानं येषां ते किंयोनिकाः, एवं किंस्थितिकाः,स्थितिश्चावस्थानहेतुः,अत्रोत्तरं क्रमेणैव दृश्यं उद्देशकः६ किमाहाराव्यक्तंच, नवरं पुग्गलजोणीय त्ति पुद्गलाःशीतादिस्पर्शा योनी येषांते तथा, नारका हि शीतयोनय उष्णयोनयश्चेति, पोग्गलट्ठिइय धिकारः। त्ति पुद्गला आयुष्ककर्मपुद्गलाः स्थितिर्येषां नरके स्थितिहेतुत्वात्ते तथा, अथ कस्मात्ते पुद्गलस्थितयोभवन्तीत्यत आह कम्मोवगे सूत्रम् 518 नारकादिनात्यादि कर्म ज्ञानावरणादि पुद्गलरूपमुपगच्छन्ति बन्धनद्वारेणोपयान्तीति कर्मोपगाः, कर्मनिदानं नारकत्वनिमित्तं कर्म माहारपरि णामयोनिबन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः कर्मपुद्गलेभ्यः सकाशात्स्थितिर्येषां ते कर्मस्थितयः, तथा कम्मुणामेव / स्थित्यादिविप्परियासमेंति त्ति कर्मणैव हेतुभूतेन, मकार आगमिकः, विपर्यासं पर्यायान्तरं पर्याप्तापर्याप्तादिकमायान्ति प्राप्नुवन्त्यतस्ते, प्रश्नाः / सूत्रम् 519 पुद्गलस्थितयो भवन्तीति // 518 // नारकादिनां 2 आहारमेवाश्रित्याह नेरइया ण मित्यादि, वीइदव्वाई ति वीचिर्विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथग्भावः, वीच्यवीचि द्रव्याहारवीचिपृथग्भाव इति वचनात्, तत्र वीचिप्रधानानि द्रव्याणिवीचिद्रव्याण्येकादिप्रदेशन्यूनानीत्यर्थः, एतन्निषेधादवीचिद्रव्याणि, प्रश्नाः / अयमत्र भावः, यावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याण्युच्यन्ते, परिपूर्णस्त्ववीचिद्रव्याणीति टीकाकारः, चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान्, तत्र च याः सर्वोत्कृष्टाहारद्रव्यवर्गणास्ता अवीचिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेन हीनास्ता वीचिद्रव्याणीति, एगपएसऊणाइंपि दव्वाई ति, एकप्रदेशोनान्यपि, अपिशब्दादनेकप्रदेशोनान्यपीति // 519 // अनन्तरं दण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य कामभोगोपदर्शनायाह // 107