________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1071 // सद्दा जाव परक्कमे, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा ॥सूत्रम् 516 // 5 नेरइया दस ठाणाइ मित्यादि, तत्राणिट्ठा गइ त्ति, अप्रशस्तविहायोगतिनामोदयसम्पाद्या नरकगतिरूपा वा, अणिट्ठा ठिति त्ति नरकावस्थानरूपा नरकायुष्करूपावा, अणिढे लावन्ने त्ति लावण्यं शरीराकृतिविशेषः, अणिढे जसोकित्ति त्ति प्राकृतत्वादनिष्टेति द्रष्टव्यं यशसा सर्वदिग्गामिप्रख्यातिरूपेण पराक्रमकृतेन वा सह कीर्तिः, एकदिग्गामिनी प्रख्यातिनफलभूता वा यशः कीर्तिः, अनिष्टत्वं च तस्या दुष्प्रख्यातिरूपत्वात्, अणिढे उट्ठाण इत्यादि, उत्थानादयो वीर्यान्तरायक्षयोपशमादिजन्य वीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सितत्वादिति // 7 पुढविक्काइए त्यादि, छट्ठाणाई ति पृथिवीकायिकानामेकेन्द्रियत्वेन पूर्वोक्तदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शादीन्येव षट्ते प्रत्यनुभवन्ति, इठ्ठाणिट्ठा फास त्ति सातासातोदयसम्भवाच्छुभाशुभक्षेत्रोत्पत्तिभावाच्च, इट्ठाणिट्ठा गइ ति यद्यपि तेषां स्थावरत्वेन गमनरूपा गतिर्नास्ति स्वभावतस्तथाऽपि परप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्हा स्यात्, अथवा यद्यपि पापरूपत्वात्तिर्यग्गतिरनिष्टैवस्यात्तथाऽपीषत्प्राग्भाराऽप्रतिष्ठानादि क्षेत्रोत्पत्तिद्वारेणेष्टानिष्टगतिस्तेषां भावनीयेति, एवं जाव परक्कमे त्ति वचनादिदं दृश्यम्, इट्ठाणिट्ठा ठिई सा च गतिवद्भावनीया, इट्ठाणिढे लावन्न इदं च मण्यन्धपाषाणादिषु भावनीयम्, इट्ठाणिढे जसोकित्ती इयं सत्प्रख्यात्यसत्प्रख्यातिरूपा मण्यादिष्वेवावसेयेति, इठ्ठाणिढे उट्ठाण जावपरक्कमे, उत्थानादि च यद्यपि तेषां स्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारवशात्तदिष्टमनिष्टं वाऽवसेयमिति / 8 बेंदिया सत्तट्ठाणाई ति शब्दरूपगन्धानां तदविषयत्वात्, रसस्पर्शादिस्थानानिच शेषाण्येकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि, गतिस्तु तेषांत्रसत्वाद्गमनरूपा द्विधाऽप्यस्ति, भवगतिस्तूत्पत्तिस्थानविशेषेणेष्टानिष्टाऽवसेयेति ॥५१६॥अथ तिरियपोग्गले देव (सू०५१५ वृत्तिः) इत्यादिद्वारगाथोक्तार्थाभिधानायाह 14 शतके उद्देशक: 5 अग्न्यधिकारः। सूत्रम् 516 नारकासुरैकद्वित्रिचतु:ति० पञ्चेन्द्रियानामनिष्ट शब्दरूपगन्धरसस्पर्शगतिस्थितिलावण्ययश:कीयुत्थानादि दशस्थानानुभवप्रश्ना:। 2071