SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गग्राहक ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात्, इह च जघन्यपदं नास्ति, मनुष्यक्षेत्रमध्यवर्ति 13 शतके श्रीअभय उद्देशकः 4 त्वादद्धासमयस्य, जघन्यपदस्य च लोकान्त एव सम्भवादिति, तत्र सप्तभिरिति, कथम्?, अद्धासमयविशिष्टं परमाणुद्रव्यमेकत्र वृत्तियुतम् नरकपृथिभाग-२ धर्मास्तिकायप्रदेशेऽवगाढमन्ये च तस्य षट्सु दिक्ष्विति सप्तेति, जीवास्तिकायप्रदेशैश्चानन्तैरेकप्रदेशेऽपि तेषामनन्तत्वात्, व्यधिकारः। सूत्रम् 483 | // 1021 // एवं जाव अद्धासमएहिं ति, इह यावत्करणादिदं सूचितम्, एकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट इति, (अपूर्णम्) भावना चास्यैवम्, अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, एकद्रव्यस्य स्थाने जीवैकप्रदेश पुद्गलैकट्यापार्वतश्चानन्तानां पुद्गलानां सद्भावात्, तथाऽद्धासमयैरनन्तैरसौ स्पृश्यतेऽद्धासमयविशिष्टानामनन्तानामप्यणुद्रव्याणामद्धा दिसङ्ख्यातासमयत्वेन विवक्षितत्वात्तेषां च तस्य स्थाने तत्पार्श्वतश्च सद्भावादिति // 30 धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ताऽथ साचातान न्तप्रदेशानां द्रव्यतस्तामाह धम्मत्थिकाएण मित्यादि, नत्थि एगेणवि त्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात्तव्यतिरिक्तस्य च धर्मादिभिः धर्मास्तिकायप्रदेशस्याभावादुक्तं नास्ति, न विद्यतेऽयं पक्षो यदुतैकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मास्तिकायप्रदेशैरसङ्घयेयैः स्पृष्टः, धर्मास्तिकायप्रदेशाननन्तर एव व्यवस्थितत्वादधर्मास्तिकाय भिश्वसह स्पर्शनाप्रश्नाः। सम्बन्धिनामसङ्ख्यातानामपि प्रदेशानामिति, आकाशास्तिकायप्रदेशैरप्यसङ्खयेयैः, असङ्खयेयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य, जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायोऽनन्तैः स्पृष्टः, तद्व याप्त्या धर्मास्तिकायस्यावस्थित्वात्तेषां। चानन्तत्वात्, अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽनन्तैरिति / ३१एवमधर्मास्तिकायस्य 6 आकाशास्तिकायस्य 6 जीवास्तिकायस्य 6 पुद्गलास्तिकायस्य 6 अद्धासमयस्य च 6 सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायादिस्तत्प्रदेशैरेव चिन्त्यते तत्स्वस्थानमितरच्च परस्थानम्, तत्र स्वस्थाने नत्थि एगेणवि पुट्ठ इति निर्वचनं वाच्यम्, परस्थाने च कालेकसमयस्य धर्मादि 21 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy