________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1019 // प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद्वाभ्यां स्पृष्टः, तथा यस्तस्योपर्यधस्ताद्वा प्रदेशस्तस्यापिपुद्गलद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्याम्, तथा पार्श्वप्रदेशावेकैकमणुं स्पृशतः परस्परव्यवहितत्वादित्येवं जघन्यपदे षड्भिर्धर्मास्तिकायप्रदेशैयणुक- स्कन्धः स्पृश्यते, नयमतानङ्गीकरणे तु चतुभिरेव व्यणुकस्य जघन्यतः स्पर्शना स्यादिति वृत्तिकृता त्वेवमुक्तम्, इह - यद्विन्दुद्वयं तत्परमाणुद्वयमिति मन्तव्यं तत्र चार्वाचीन: परमाणुर्धर्मास्तिकायप्रदेशेनार्वास्थितेन स्पृष्टः, परभागवर्ती च परतः स्थितेन, एवंद्वौ, तथा ययोः प्रदेशयोर्मध्ये परमाणूस्थाप्येते तयोरग्रेतनाभ्यां प्रदेशाभ्यां तौ स्पृष्टावेकेनैको द्वितीयेन च द्वितीय इति चत्वारो द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् / उक्कोसपए बारसहिं ति, कथं?, परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात्स्पृष्टौ द्वौचाधस्तनावुपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च द्वौ 2 दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वादशेति १एवमधर्मास्तिकायप्रदेशैरपि२,केवतिएहि / / _ आगासत्थिकायप्पएसेहिं?, बारसहिं ति, इह जघन्यपदं नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशभिरित्युक्तम् 3, सेसं जहा धम्मत्थिकायस्स त्ति, अयमर्थः, दो भंते! पोग्गलत्थिकायप्पएसा केवतिएहिं जीवत्थिकायप्पएसेहिं पुट्ठा?, गोयमा! अणंतेहिं 4 / एवं पुद्गलास्तिकायप्रदेशैरपि 5, अद्धासमयैः स्यात् स्पृष्टौ स्यान्न, यदि स्पृष्टौ तदा नियमादनन्तैरिति 6 // 25 तिन्नि भंते! इत्यादि जहन्नपए अट्ठहिं ति, कथं?, पूर्वोक्तनयमतेनावगाढप्रदेशस्त्रिधा अधस्तनोऽप्युपरितनोऽपि वा त्रिधा द्वौ पार्श्वत इत्येवमष्टौ, उक्कोसपए सत्तरसहिं ति प्राग्वद्भावनीयम्, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाश्च स्पर्शकाः प्रदेशा भवन्ति, उत्कृष्टपदेतु विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते भवन्ति, तत्र चैकाणोचिगुणत्वे द्वौ द्वयसहितत्वे च चत्वारोजघन्यपदे स्पर्शकाः प्रदेशाः, उत्कृष्टपदे त्वेकाणोः पञ्चगुणत्वे द्विकसहितत्वे च सप्त स्पर्शकाः प्रदेशा भवन्ति, एवं व्यणुकत्र्यणुकादिष्वपि, 13 शतके उद्देशक:४ नरकपृथिव्यधिकारः। सूत्रम् 483 (अपूर्णम्) जीवैकप्रदेश पुद्गलैकव्या| दिसङ्ख्यातासङ्ख्यातानन्तप्रदेशानां धर्मादिभिः कालैकसमयस्य धर्मादिभिश्चसहस्पर्शनाप्रश्नाः। // 1019 //