________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 1014 // आहारए तेयाकम्मए सोइंदिय-चक्खिंदिय-घाणिदिय-जिभिंदिय-फासिंदिय-मणजोग-वयजोग-कायजोग-आणापाणूणंच गहणं पव०, गहणलणं पोग्गल०॥ सूत्रम् 481 // 14 प्रवर्त्तनद्वारे, आगमणगमणे इत्यादि, आगमनगमने प्रतीते भाषा व्यक्तवचनं भाष व्यक्तायां वाची ति वचनात्, उन्मेषोऽक्षिव्यापारविशेषः, मनोयोगवाग्योगकाययोगाः प्रतीता एवं तेषां च द्वन्द्वस्ततस्ते, इह च मनोयोगादयः सामान्यरूपा आगमनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति, जे यावन्ने तहप्पगार त्ति ये चाप्यन्ये- आगमनादिभ्योऽपरे, तथाप्रकारा आगमनादिसदृशा भ्रमणचलनादयः, चला भाव त्ति चलस्वभावाः पर्यायाः, सर्वे ते धर्मास्तिकाये सति प्रवर्त्तन्ते, कुत? इत्याह गइलक्खणे णं धम्मत्थिकाए त्ति / 15 ठाणनिसीयणतुयट्टण त्ति कायोत्सर्गासनशयनानि प्रथमाबहुवचनलोपदर्शनात्, तथा मनसश्चानेकत्वस्यैकत्वस्य भवनमेकत्वीभावस्तस्य यत्करणंतत्तथा। 16 आगासत्थिकाएण मित्यादि, जीवद्रव्याणांचाजीवद्रव्याणां च भेदेन भाजनभूतः, अनेन चेदमुक्तं भवति, एतस्मिन् सति जीवादीनामवगाहः प्रवर्त्तते, एतस्यैव प्रनितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह, एगेणवी त्यादि, एकेन परमाण्वादिना सेत्ति, असा आकाशास्तिकायप्रदेश इति गम्यते,पूर्णो भृतः,तथा द्वाभ्यामपिताभ्यामसौ पूर्णः,कथमेतत्?, उच्यते, परिणामभेदाद्यथाऽपवरकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि तत्तत्र माति यावच्छतमपि तेषां तत्र माति, तथौषधविशेषापादितपरिणामादेकत्र पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं भवति विचित्रत्वात्पुद्गलपरिणामस्येति, अवगाहणालक्खणे णं ति, इहावगाहनाऽऽश्रयभावः॥ 17 जीवत्थिकाएण मित्यादि, जीवास्तिकायेनेति, अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः, भदन्त! जीवानां |13 शतके उद्देशकः 4 नरकपृथिव्यधिकारः। सूत्रम् 481 पञ्चास्तिकायलोकप्रश्नः / 7. अस्तिकायप्रवर्तनद्वारम्। धर्माधर्माऽऽकाशजीवपुद्गलपञ्चास्तिकायैः प्रयोजनादिप्रश्नाः / // 1014 //