SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 535 // स तथा तम्, बहुपहरणावरणा-भरियजुज्झसझंबहूनांप्रहरणाना(मस्यादीना)मावरणानांच स्फुरककण्टकादीनां भृतो युद्धसज्जश्च यः स तथातस्तम्, सछत्तं सज्झयं सघंटं पंचामेलियपरिमंडियाभिरामं पञ्चभिरापीडिकाभिश्चूडाभिः परिमण्डितोऽभिरामश्च रम्यो यः स तथातस्तम्, ओसारियजमलजुयलघंटमवसारितमवलम्बितं यमलयुगलं द्वयं घण्टयोर्यत्र स तथातस्तम्, विजुपिणद्धं व कालमेहं भास्वरप्रहरणाभरणादीनां विद्युतकल्पना (त्वात्) कालत्वाच्च गजस्य मेघसमतेति, उप्पाइयपव्वयं व सक्खं, औत्पातिकपर्वतमिव साक्षादित्यर्थः, मत्तं मेहमिव गुलुगुलंतं मणपवणजइणवेगं मनः पवनजयी वेगो यस्य स तथातस्तम्, शेष तु लिखितमेवास्ति, वाचनान्तरे त्विदंसाक्षाल्लिखितमेव दृश्यत इति, कयबलिकम्मे त्ति देवतानां कृतबलिकर्मा, कयकोउयमंगलपायच्छित्ते त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि येन स तथा, तत्र कौतुकानि मषीपुण्ड्रादीनि मङ्गलानि सिद्धार्थकादीनि, सन्नद्धबद्धवम्मियकवए त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितो वर्मतया कृतोऽङ्गे निवेशनात् कवचः कङ्कटो येन स तथा, ततः कर्मधारयः, उप्पीलियसरासणपट्टिए त्ति, उत्पीडिता गुणसारणेन कृतावपीडा शरासनपट्टिका धनुर्दण्डो येन स तथा, उत्पीडिता वा बाहौ बद्धा शरासनपट्टिका बाहुपट्टिका येन स तथा, पिणद्धगेवेज्ज विमलवरबद्धचिंधपट्टे त्ति पिनद्धं परिहितं ग्रैवेयकं ग्रीवाभरणं येन स तथा, विमलवरो बद्धश्चिह्नपट्टो योधचिह्नपट्टो येन स तथा, ततः कर्मधारयः, गहियाउहपहरणे त्ति गृहीतान्यायुधानि शस्त्राणि प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधान्यक्षेप्यशस्त्राणि खड्गादीनि, प्रहरणानि तु क्षेप्यशस्त्राणि नाराचादीनि ततो गृहीतान्यायुधप्रहरणानि येन स तथा, सकोरिटमल्लदामेणं त्ति सह कोरिष्टप्रधानैः कोरिण्टकाभिधानकुसुमगुच्छैर्माल्यदामभिः पुष्पमालाभिर्यत्तथा तेन, चउचामरवालवीइयंगे त्ति चतुर्णां चामराणां वालैर्वीजितमङ्गं यस्य स तथा, मंगलजयसद्दकयालोए ७शतके उद्देशकः९ असंवृतानगाराधिकारः। सूत्रम् 300 कण्टकसंग्रामे जयपराजय प्रश्नाः / तदभिधानकारणजनसंहारादि प्रश्नाः / // 535 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy