________________ द्वारं मलधारि श्रीहेमचन्द्र सूत्रम् 593-599 2.2 नाम युतम्। // 401 / / श्रीअनुयोग-वादीनाम् / अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नाम स्थापना द्रव्य भावभेदाच्चतुर्विधो निक्षेपोऽत एवाह- से समासओ [2] निक्षेपः। चउब्विहे, इत्यादि सूत्रसिद्धमेव // 593-98 // यावजस्स सामाणिओ अप्पे त्यादि। यस्य सत्त्वस्य, सामानिक: सन्निहितः, सूरि वृत्ति- आत्मासर्वकालं व्यापारात्, क्व? संयमेमूलगुणरूपे, नियमे, उत्तरगुणसमूहात्मके, तपस्यनशनादौ, तस्येत्थम्भूतस्य सामायिक भवतीत्येतत्केवलिभाषितमिति श्लोकार्थः॥१२७॥ जो समो, इत्यादि। यः समःसर्वत्र मैत्रीभावात्तुल्यः, सर्वभूतेषुसर्वजीवेषु, निष्पन्ननिक्षेपः। बसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितम्। जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि नामादिभेदैः सामायिकलभ्यते, किन्तु जीवदयामूलत्वाद्धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति ॥१२८॥यत एव हि सर्वभूतेषु समोऽत एव नामनिक्षेपणम्। साधुः समणो भण्यत इति भावं दर्शयन्नाह- जह मम गाहा / व्याख्या यथा मम स्वात्मनि हननादिजनितं दुःखं न प्रियमेवमेव / सर्वजीवानांतन्नाभीष्टमिति ज्ञात्वाचेतसि भावयित्वा समस्तानपिजीवान हन्तिस्वयम्, नाप्यन्यैर्घातयति, चशब्दाघ्नतश्चान्यान्न समनुजानीतेत्यनेन प्रकारेण सममणति, सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण इति गाथार्थः॥१२९॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह, नत्थि य से गाहा / व्याख्या, नास्ति च से तस्य कश्चिद्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद् / अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना, इत्येषोऽन्योऽपि पर्यायइति गाथार्थः॥१३०॥ तदेवं पूर्वोक्तप्रकारेण सामायिकवत:साधो: स्वरूपं निरूप्य प्रकारान्तरेणापितन्निरूपणार्थमाह- उरगगाहा, सश्रमणो भवतीति सर्वत्र सम्बध्यते। यः कथम्भूतो भवतीत्याह- उरग:सर्पस्तत्समः परकृताश्रयनिवासादिति। एवं समशब्दोऽपि सर्वत्र योज्यते। तथा गिरिसम: परीषहोपसर्गनिष्प्रकम्प // 401 //