________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 441 // पलिता दीवसयसहस्सकोडीवि ॥१॥हशिक्रियाविकलत्वात्तस्येत्यभिप्रायः, एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, नियुक्तिः चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भगवतः समुत्पन्न- 370-371 वक्तव्यताशेषः केवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी (टीकोसर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्माक्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, इति जो उवएसो पसंहार)। सो णओ णामं'ति इत्येवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च। ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वानेच्छति गुणभूते चेच्छतीति गाथार्थः / उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः। संशयापन्नः सन्नाह-किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसंभवात्, आचार्यः पुनराह- सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता। तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू // 1 // अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह 'सव्वेसिंगाहा"सर्वेषामपि'मूलनयानाम्, अपिशब्दात्तद्भेदानांच ‘नयानां' द्रव्यास्तिकादीनां बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् ‘सर्वनयविशुद्धं सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः // नमोवर्द्धमानाय भगवते, व्याख्यातंचूडाध्ययनम्, तद्व्याख्यानाच्च समाप्ता दशवैकालिकटीका।समाप्तं दशवैका-2 लिकं चूलिकासहितं नियुक्तिटीकासहितं च // // 441 //