________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 431 // 'आश्रमो वा' व्रतग्रहणादिरूपः सुविहितानां साधूनाम्, उभयफलमाह- अनुस्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, द्वितीया कारणे कार्योपचारात्, यथा विषं मृत्युः दधि त्रपुषी प्रत्यक्षो ज्वरः, प्रतिस्रोतः उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपांसुपो विविक्तचर्या, भवन्तीति वचनात्, तस्मात् संसाराद् उत्तारः उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुर्घतं तन्दुलान्वर्षति पर्जन्य इति / चूलिका, सूत्रम् 5-9 सूत्रार्थः॥३॥ यस्मादेतदेवमनन्तरोदितं तस्मात् आचारपराक्रमेणे त्याचारे- ज्ञानादौ पराक्रमः- प्रवृत्तिबलं यस्य स तथाविध विहारचर्योइति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेने ति संवरे- इन्द्रियादिविषये समाधिः- अनाकुलत्वं बहुलं पदेशा धिकारश्च। प्रभूतं यस्य स इति, समासः पूर्ववत्, तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह- चर्या भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च- मूलगुणोत्तरगुणरूपाः नियमाश्च- उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगाः भवन्ति साधूनां द्रष्टव्या इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः॥४॥ अनिएअवासो समुआणचारिआ, अन्नायउँछं पइरिक्कया अ। अप्पोवही कलहविवजणा अ, विहारचरिआइसिणं पसत्था॥ सूत्रम्५॥ आइन्नओमाणविवज्जणा अ, ओसन्नदिट्ठाहडभत्तपाणे / संसट्ठकप्पेण चरिज भिक्खू, तज्जायसंसट्ठ जई जइजा ।।सूत्रम् 6 // अमञ्जमंसासि अमच्छरीआ, अभिक्खणं निविगई गया अ / अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविजा // सूत्रम्॥ // 431 // ण पडिन्नविजा सयणासणाई, सिनं निसिज्जंतह भत्तपाणं / गामे कुले वा नगरे व देसे, ममत्तभावंन कहिंपि कुजा।सूत्रम् 8 // गिहिणोवेआवडिनकुजा, अभिवायणवंदणपूअणंवा। असंकिलिटेहिं समंवसिजा, मुणीचरित्तस्सजओन हाणी॥सूत्रम् //