________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 419 // प्रथमा रतिवाक्य चूलिका, सूत्रम् (श्लोकजातिः), उत्प्रव्रजितुकामस्याष्टादशस्थानार्थव्यतिकरः। गिहीणं कामभोगा 2, भुजो असाइबहुला मणुस्सा 3, इमे अमे दुक्खेन चिरकालोवट्ठाई भविस्सई 4, ओमजणपुरकारे 5, वंतस्स य पडिआयणं 6, अहरगइवासोवसंपया 7, दुल्लहे खलु भो! गिहीणं धम्मे गिहवासमज्झे वसंताणं 8, आयके से वहाय होइ 9, संकप्पे से वहाय होइ 10, सोवक्केसे गिहवासे निरुवक्केसे परिआए 11, बंधे गिहवासे मुक्खे परिआए१२, सावजे गिहवासे अणवजे परिआए 13, बहुसाहारणा गिहीणं कामभोगा 14, पत्तेअंपुण्णपावं 15, अणिच्चेखलु भो! मणुआण जीविए कुसग्गजलबिंदुचंचले 16, बहुंच खलु भो! पावं कम्मं पगडं 17, पावाणं च खलु भो! कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता 18 अट्ठारसमं पयं भवइ / भवइ अइत्थ सिलोगोइह खलु भोः प्रव्रजितेन इहेति जिनप्रवचने खलुशब्दोऽवधारणेसच भिन्नक्रम इति दर्शयिष्यामः, भो इत्यामन्त्रणे, प्रव्रजितेनसाधुना, किंविशिष्टेनेत्याह- उत्पन्नदुःखेन संजातशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन संयमे व्यावर्णितस्वरूपे अरतिसमापन्नचित्तेन उद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यते-अवधानोत्प्रेक्षिणा अवधानं-अपसरणं संयमादुत्प्राबल्येन प्रेक्षितुंशीलं यस्य स तथाविधस्तेन,उत्प्रव्रजितुकामेनेति भावः, अनवधावितेनैव अनुत्प्रव्रजितेनैव अमूनि वक्ष्यमाणलक्षणान्यष्टादश स्थानानि सम्यग् भावसारं सुष्ठु प्रेक्षितव्यानि सुष्ट्वालोचनीयानि भवन्तीति योगः, अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति / तान्येव विशेष्यन्ते- हयरश्मिगजाङ्कशपोतपताकाभूतानि अश्वखलिनगजाङ्कशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति- यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक्संप्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः तद्यथे' त्यादि, तद्यथेत्युपन्यासार्थः, हंभो दुष्षमायां दुष्प्रजीविन इति हंभो- शिष्यामन्त्रणे दुष्षमायां- अधम // 419 //