________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 259 // पञ्चममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् विराधना संप्राप्ते शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते भिक्षाकाले भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषेधमाह, अलाभाशाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, असंभ्रान्तः अनाकुलो यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः, अमूर्च्छितः पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, न तु पिण्डादावेवासक्त इति, अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारेण भक्तपानं यतियोग्यमोदनारनालादि गवेषयेद् अन्वेषयेदिति सूत्रार्थः॥१॥ यत्र यथा गवेषयेत्तदाह-'से' इत्यादि सूत्रम्, व्याख्या- से इत्यसंभ्रान्तोऽमूर्छितः ग्रामे वा नगरे वा, उपलक्षणत्वादस्य कर्बटादौ वा, गोचराग्रगत इति गोरिव चरणं गोचरः- उत्तमाधममध्यमकुलेष्वरक्तद्विष्टस्य भिक्षाटनम्, अग्रः- प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतःतद्वर्ती मुनिः- भावसाधुः चरेत्- गच्छेत् मन्दं शनैः शनैर्न द्रुतमित्यर्थः, अनुद्विग्नः प्रशान्तः परीषहादिभ्योऽबिभ्यत् अव्याक्षिप्तेन चेतसा वत्सवणिग्जायादृष्टान्तात् शब्दादिष्वगतेन 'चेतसा' अन्तःकरणेन एषणोपयुक्तेनेति सूत्रार्थः॥२॥ पुरओ जुगमायाए, पेहमाणो महिं चरे / वजंतो बीअहरियाई, पाणे अदगमट्टिअं। सूत्रम् 3 / / ओवायं विसमंखाणु, विज्जलं परिवज्जए। संकमेण नगच्छिज्जा, विजमाणे परक्कमे // सूत्रम् 4 // पवडते व से तत्थ, पक्खलंते व संजए। हिंसेज पाणभूयाई, तसे अदुव थावरे / / सूत्रम् 5 // तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए। सइ अन्नेण मग्गेण, जयमेव परक्कमे / / सूत्रम् 6 // इंगालं छारियं रासिं, तुसरासिंच गोमयं / ससरक्खेहिं पाएहिं, संजओतं नइक्कमे।सूत्रम् 7 // नचरेज वासे वासंते, महियाए वा पडंतिए। महावाए व वायंते, तिरिच्छसंपाइमेसु वा // सूत्रम् 8 // यथा चरेत्तथैवाह- पुरतो इति सूत्रम्, व्याख्या- पुरतः अग्रतो युगमात्रया शरीरप्रमाणया शकटोर्द्धिसंस्थितया, दृष्ट्येति 259 //