SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 242 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 11 अप्काययतना। प्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः- सप्तदशप्रकारसंयमोपेतः, विविधं- अनेकधा द्वादशविधेतपसि रतो विरतः, प्रतिहतप्रत्याख्यातपापकर्मेति-प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं- हेत्वभावतः पुनर्वृद्ध्यभावेन पापं कर्मज्ञानावरणीयादि येन स तथाविधः, दिवा वा रात्रौ वा एको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः, शेषकालं परिषद्गतः, इदं च वक्ष्यमाणं न कुर्यात् / से पुढविं वा इत्यादि, तद्यथा-पृथिवीं वा भित्तिं वा शिलां वा लोष्ट वा, तत्र पृथिवी-लोष्टादिरहिता भित्तिः- नदीतटी शिला-विशाल: पाषाणः लोष्टः- प्रसिद्धः, तथा सह रजसा-आरण्यपांशुलक्षणेन वर्तत इति सरजस्कस्तं सरजस्कं वा कायं कायमिति देहं तथा सरजस्कं वा वस्त्रं- चोलपट्टकादि 'एकग्रहणे. तज्जातीयग्रहण'मिति पात्रादिपरिग्रहः, एतत् किमित्याह- हस्तेन वा पादेन वा काष्ठेन वा कलिजेन वा- क्षुद्रकाष्ठरूपेण अङ्गल्या वा शलाकया वा- अयःशलाकादिरूपया शलाकाहस्तेन वा- शलाकासंघातरूपेण णालिहिज्ज त्ति नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, तत्र ईषत्सकृद्वाऽऽलेखनम्, नितरामनेकशो वा विलेखनम्, घट्टनं चालनम्, भेदो विदारणम्, एतत् स्वयं न कुर्यात्, तथा अन्यमन्येन वा नालेखयेत् न विलेखयेत् न घट्टयेत् न भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा | विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत्॥ से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगंवा ओसंवा हिमंवा महियं वा करगंवा हरतणुगंवा सुद्धोदगंवा उदउल्लं वा कायं उदउल्लं वा वत्थं ससिणिद्धं वा कायंससिणिद्धंवा वत्थंन आमुसिज्जान संफुसिज्जान आवीलिज्जान पवीलिज्जान अक्खोडिजान पक्खोडिज्जान आयाविज्जा न पयाविना अन्नं न आमुसाविजा न संफुसाविजा न आवीलाविज्जा न पवीलाविजा न अक्खोडाविजा न पक्खोडाविना न // 242 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy