SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 159 श्रीसमवाया श्रीअभय० वृत्तियुतम् // 273 // विशेषणार्थमाह- तद्यथे त्यादि, तद्यथेति बलदेववासुदेवस्वरूपोपन्यासारम्भार्थः, केचित्तु दसारमंडणा इति पठन्ति, तत्र दशाराणां- वासुदेवकुलीनप्रजानां मण्डनाः- शोभाकारिणो दशारमण्डना उत्तमपुरुषा इति तीर्थकरादीनां चतुष्पञ्चाशत उत्तमपुरुषाणां मध्यवर्त्तित्वात् मध्यपुरुषाः, तीर्थकरचक्रिणां प्रतिवासुदेवादीनां च बलाद्यपेक्षया मध्यवर्त्तित्वात्, प्रधानपुरुषास्तत्कालिकपुरुषाणांशौर्यादिभिः प्रधानत्वात्, ओजस्विनोमानसबलोपेतत्वात्, तेजस्विनोदीप्तशरीरत्वात्, वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विनः पराक्रमं प्राप्य प्रसिद्धिप्राप्तत्वात्, छायंसि त्ति प्राकृतत्वात् छायावन्तः शोभमानशरीरा अत एव कान्ताः कान्तियोगात् सौम्या अरौद्राकारत्वात् सुभगा जनवल्लभत्वात् प्रियदर्शनाचक्षुष्यरूपत्वात् सुरूपाः समचतुरस्रसंस्थानत्वात् शुभं सुखं वा सुखकरत्वाच्छीलं- स्वभावो येषां ते शुभशीलाः सुखशीला वा सुखेनाभिगम्यन्ते- सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः सर्वजननयनानां कान्ता-अभिलाष्या येते तथा, ततः पदत्रयस्य कर्मधारयः, ओघबला:प्रवाहबलाः अव्यवच्छिन्नबलत्वात् अतिबलाः शेषपुरुषबलानामतिक्रमात् महाबलाः- प्रशस्तबलाः अनिहता-निरुपक्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात् अपराजितास्तैरेव शत्रूणां पराजितत्वात्, एतदेवाह-शत्रुमर्दनास्तच्छरीरतत्सैन्यकदर्थना रिपुसहस्रमानमथनास्तद्वाञ्छितकार्यविघटनात् सानुक्रोशा: प्रणतेष्वद्रोहकत्वात् अमत्सराः परगुणलवस्यापि ग्राहकत्वात् अचपला मनोवाक्कायस्थैर्यात् अचण्डा निष्कारणप्रबलकोपरहितत्वात् मिते-परिमिते मञ्जुनी-कोमले प्रलापश्च-आलापो हसितंच येषां ते मितम प्रलापहसिताः गम्भीरं-अदर्शितरोषतोषशोकादिविकारं मेघनादवद्वा मधुरं-श्रवणसुखकरं प्रतिपूर्णअर्थप्रतीतिजनकं सत्यं-अवितथं वचनं-वाक्यं येषांते तथा, ततः पदद्वयस्य कर्मधारयः, अभ्युपगतवत्सलास्तत्समर्थनशीलत्वात् शरण्यास्त्राणकरणे साधुत्वात् लक्षणानि-मानादीनि वज्रस्वस्तिकचक्रादीनि वा व्यञ्जनानि-तिलकमषादीनि
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy