SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् // 255 // सूत्रम् 153 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् तह वेयणा भावे दुक्ख त्ति त्रिविधा वेदना-सुखा दुःखा सुखदुःखाचेति,तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरंसातासातयोः सुखदुःखयोश्चायं विशेष:- सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे सुखदुःखेतु परेण उदीर्यमाणवेदनीयकर्मानुभवलक्षणे, तथा अब्भुवगमुवक्कमिय त्ति द्विधा वेदना- आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्या यामभ्युपगमतो वेदयन्ति जीवा यथा साधवःशिरोलोचब्रह्मचर्यादिकां द्वितीया तु स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य / वेदनीयस्यानुभवः, तत्र पञ्चेन्द्रियतिर्यमनुष्या द्विविधामपि शेषास्त्वौपक्रमिकीमेव वेदयन्तीति, तथा णीयाए चेव अणियाए| त्ति द्विविधा वेदना, तत्र निदया आभोगतः अनिदया त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंज्ञिनस्त्वनिदयेति, एतद्द्वारविवरणाय नेरइयाण मित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमंवेदनाख्यं पदमध्येयमिति। अनन्तरं वेदना प्ररूपिता,साच लेश्यावत एव भवतीति लेश्याप्ररूपणायाह- कइणं भंते इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशंषडुद्देशकं लेश्याभिधानं पदमध्येतव्यम्, तच्चास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति। अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणाय- अणंतरा ये त्यादिद्वारश्लोकमाह, तत्र अणंतरा य आहारे त्ति अनन्तराश्च- अव्यवधानाचाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगना अपि चेति वचनादनाभोगना च वाच्या, तथा पुद्गलान्न जानन्त्येव एवकारान्न पश्यन्तीति चतुर्भङ्गी सूचिता, तथा अध्यवसानानि सम्यक्त्वं च वाच्यमिति, तत्राद्यद्वारार्थमाह- नेरइए त्यादि, अणंतराहारत्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, ततो निव्वत्तणया इति ततः शरीरनिर्वृत्तिः, ततो परियादियणय त्ति ततः पर्यापानमङ्गप्रत्यङ्गैः समन्तात्पानमित्यर्थः, ततो परिणामय त्ति आपीतस्योपात्तस्य परिणतिरिन्द्रियादिविभागेन, ततो परियारणय त्ति ततः शब्दादिविषयोपभोग इत्यर्थः ततो पच्छा विउव्वणय त्ति ततः पश्चाद्विक्रिया नानारूपा इत्यर्थः, हन्त त्ति
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy