SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1530 // 1622-23 नयाः / समुत्पन्नकेवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सजायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोगिरणमात्र ६.षष्ठमध्ययन कालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति यह नियुक्तिः उपदेश:- क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः / अयं च नामादौ षडिधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः। उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्त्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह- किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह- सव्वेसिं गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाहसव्वेसिपि गाहा व्याख्या-'सर्वेषा'मिति मूलनयानां अपिशब्दात् तद्भेदानांच नयानां- द्रव्यास्तिकादीनां बहुविधवक्तव्यतांसामान्यमेव विशेषा एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्यश्रुत्त्वा तत सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः॥१६२३॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति / व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् / शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥१॥समाप्ताचेयं शिष्यहितानामावश्यकटीका ॥कृति: सिताम्बराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य॥ // 1530 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy