________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 857 // १.प्रथममध्ययन सामायिक, नियुक्तिः 1051 क्रोधोदयो वज्य, सम्यक्त्वादि शस्तो योगः। जह अप्पणो तह परे जाणावण एस गरहा उ॥१॥'त्ति गाथार्थः॥ 1050 // तत्र निन्दामि गर्हामीत्यत्र गर्दा जुगुप्सोच्यते, तत्र किं जुगप्से?, 'आत्मानं' अतीतसावधयोगकारिणमश्लाघ्यम्, अथवाऽत्राणं- अतीतसावधयोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनमतीतं- सावधयोगं सततभवनप्रवृत्तं निवर्तयामीति, 'व्युत्सृजामी' ति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामि- त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, अतीतसावद्ययोगं व्युत्सृजामीति वा, अवशब्दोऽधःशब्दस्यार्थे विशेषेणाधः सृजामीत्यर्थः, नन्वेवं सावधयोगपरित्यागात् करोमि भदन्त! सामायिकमिति सावद्ययोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं व्यवसृजामीति प्रयुक्त तद्विपक्षत्यागो मांसभक्षणनिवृत्तिरभिधीयते, एवं सामायिकानन्तरमपि प्रयुक्त व्यवसृजामिशब्दे तद्विपक्षत्यागोऽवगम्यते, सच तद्विपक्षः सुगम एवेत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानत्वात् प्रारम्भस्य // साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकार: नि०-दव्वविउस्सग्गे खलु पसन्नचंदो हवे उदाहरणं / पडिआगयसंवेगो भावंमिवि होइ सोचेव॥१०५१॥ / इह द्रव्यव्युत्सर्गः- गणोपधिशरीरानपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सर्गः आर्तध्यानादिध्यायिनः कायोत्सर्ग इति, अत एवाऽऽह- द्रव्यव्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणम्, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुक्लध्यायिनः कायोत्सर्ग एव, तथा चाऽऽह- प्रत्यागतसंवेगोभावेऽपि भावव्युत्सर्गेऽपि भवति स एव -प्रसन्नचन्द्र उदाहरणमितिगाथाक्षरार्थः॥ 1051 // भावार्थः कथानकादवसेयः, तच्चेदं-खिइपइट्ठिए णयरे पसन्नचंदो राया, तत्थ भगवं महावीरो समोसढो, तओ Oक्षितिप्रतिष्ठिते नगरे प्रसन्नचन्द्रो राजा, तत्र भगवान् महावीरः समवसृतः, ततो // 857 //