________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 844 // १.प्रथममध्ययन सामायिक, नियुक्तिः 1042-1043 साम्न एकार्थिकानि निक्षेपा। भाष्यः 189 संबोहिया, पव्वइया, पुव्वं दव्वपच्चक्खाणं पच्छा भावपच्चक्खाणं जातमिति कृतं प्रसङ्गेन / प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावज्जीवतयेति व्याख्यायते- इह चाऽऽदौ भावार्थमेवाभिधित्सुराह नि०- जावदवधारणंमि जीवणमवि पाणधारणे भणि।आपाणधारणाओ पावनिवित्ती इहं अत्थो॥१०४२॥ यावद् इत्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितम्, 'जीव प्राणधारण' इति वचनात्, ततश्चाप्राणधारणात्प्राणधारणं यावत् पापनिवृत्तिरित्यर्थः, परतस्तु न विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुरादिषूत्पन्नस्य भङ्गप्रसङ्गादिति गाथार्थः॥१०४२॥ इह च जीवनं जीव इति क्रियाशब्दोऽयम्, न जीवतीति जीव आत्मपदार्थः, जीवनं तु प्राणधारणम्, जीवनं जीवितं चेत्येकोऽर्थः, तत्र जीवितं दशधा वर्तते, तदेव तावदादौ निरूपयन्नाह नि०- नामं १ठवणा 2 दविए 3 ओहे 4 भव 5 तब्भवे अ६ भोगे अ७। संजम 8 जस 9 कित्तीजीविअंच 10 तंभण्णई दसहा & // 1043 // * नामजीवितं स्थापनाजीवितं द्रव्यजीवितं ओघजीवितं भवजीवितं तद्भवजीवितं भोगजीवितं च तथा संयमजीवितं यशोजीवितं कीर्तिजीवितं च तद्भण्यते दशधेति गाथासमासार्थः / / 1043 // अवयवार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासयाऽऽह भा०-दव्वे सच्चित्ताई 3 आउअसहव्वया भवे ओहे 4 / नेरइयाईण भवे 5 तब्भव तत्थेव उववत्ती६॥१८९॥ द्रव्य इति द्वारपरामर्शः, द्रव्यजीवितं सच्चित्तादि, आदिशब्दान्मिश्राचित्तपरिग्रहः, इह च कारणे कार्योपचाराद् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तव्यजीवितमिति, द्विपदादिद्रव्यस्य चान्ये, पारदादिद्रव्यावस्थेत्यन्ये। // 844 / /