________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 475 // नुमन्यते ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्यम्, यत्पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीया इत्यलं प्रसङ्गेन इति गाथार्थः॥ चारित्रोपसम्पद्विधिविशेषप्रतिपादनायाह नि०- उवसंपन्नोजं कारणंतु तं कारणं अपूरेतो। अहवासमाणियंमीसारणया वा विसग्गोवा // 720 // दारं॥ उपसम्पन्नो यत्कारणं यन्निमित्तम्, तुशब्दादन्यच्च सामाचार्य्यन्तर्गतं किमपि गृह्यते, तत्कारणं वैयावृत्त्यादि अपूरयन् अकुर्वन्, यदा वर्तत इत्यध्याहारः, किं?- तदा सारणया वा विसग्गो वा तदा तस्य सारणा चोदना वा क्रियते, अविनीतस्य पुनः विसर्गो वा- परित्यागो वा क्रियत इति, तथा नापूरयन्नेव यदा वर्त्तते तदैव सारणा वा विसर्गो वा क्रियते, किंतु? अहवा समाणियंमि त्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा- समाप्तम्, तद्विसर्गो वेति गाथार्थः॥ उक्ता संयतोपसम्पत्, साम्प्रतं गृहस्थोपसम्पदुच्यते-तत्र साधूनामियंसामाचारी-सर्वत्रैवाध्वादिषुवृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यम्, ®यत आह नि०- इत्तरियं पिन कप्पड़ अविदिन्नं खलु परोग्गहाईसुं। चिट्ठित्तु निसिइत्तु व तइयव्वयरक्खणट्ठाए // 721 // इत्वरमपि स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावग्रहानेकभेदप्रख्यापकः, किंन कल्पते इति?, आह-स्थातुं कायोत्सर्ग कर्तुं निषीदितुं उपवेष्टुम्, किमित्यत आह- तइयव्वयरक्खणट्ठाए अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थम्, तस्माद्भिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यम्, तदभावे देवताम्, यस्याः सोऽवग्रह इति गाथार्थः / उक्ता दशविधसामाचारी, साम्प्रतमुपसंहरन्नाह 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 720-721 ज्ञानदर्शनचारित्रोपसम्पद: त्रित्रिद्विभेदाः / // 475 //