________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 434 // तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाशम्, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् / स च भवगत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदग्रतस्तस्थौ, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं॥६१९॥ पूर्ववत्। नि०- किंमन्नि बंधमोक्खा अस्थिण अत्थित्ति संसओ तुझं। वेयपयाण य अत्थंण याणसी तेसिमो अत्थो॥६२०॥ किंमन्यसे बन्धमोक्षौस्तो न वा?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयंच संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो / वर्त्तते, वेदपदानां चार्थं न जानासि , चः पूर्ववत्, तेषामयमों- वक्ष्यमाणलक्षण इत्यर्थः / तानि चामूनि वेदपदानि- स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद इत्यादीनि, तथा नह वै सशरीरस्य / प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते- स एष: निर्वाणअधिकृतो जीवः विगुण:- सत्त्वादिगुणरहितः विभुः- सर्वगतः न बध्यते- पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्त्तते, न मुच्यते- न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्य परिवारः, अमर्षः, आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं-स्वरूपमेव वेद-विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्वन्धमोक्षानुपपत्तिरिति भावः / ततश्चामूनि किल बन्धमोक्षाभावप्रतिपादकानि, तथा नह वै नैवेत्यर्थः, सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति-बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिःसंसारिणो नास्तीत्यर्थः, अशरीरंवा वसन्तं- अमूर्तमि-8 त्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य! 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 619-620 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक संशयाः, वेदपदार्थः, दीक्षा। // 434 //