________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 791 // श्रुतस्कन्ध: 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 81 |(804) विघ्नशुद्धिः सत्तारूपं वस्त्वसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्यावस्तुत्वं खरविषाणस्येव, सच संग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसांख्यवत् / व्यवहारनयस्य तु स्वरूपमिदम्, तद्यथा- यथालोकग्राहमेव वस्तु, यथा च शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगत तथाभूतं वस्तु न भवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि?, यथा यथा लोकेन विशेषभूयिष्ठतयाऽर्थक्रियाकारि वस्तु व्यवह्रियते तथैव तद्वस्त्वित्याबालगोपालागनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति, अयमप्युत्पादव्ययध्रौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्यादृष्टिः, तथाविधरथ्यापुरुषवदिति / ऋजुसूत्रमतं त्विदं-ऋजु-प्रगुणं तच्च विनष्टानुत्पन्नतयाऽतीतानागतवक्रपरित्यागेन वर्तमानकालक्षणभावि यद्वस्तु तत्सूत्रयति- प्रतिपादयत्याश्रयतीति ऋजुसूत्रः, तस्यैवार्थक्रियाकारितया वस्तुत्वलक्षणयोगादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति / शब्दनयस्वरूपं त्विदम्, तद्यथा- शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमाल्लिङ्गवचनसाधनोपग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्त्वन्यदेव भवति, तद्यथा-पुष्यस्तारका नक्षत्रमेवं संख्याभिन्नं जलमापो वर्षा ऋतुः, साधनभेदस्त्वयं- एहि मन्ये रथेन यास्यसि ,यातस्ते पिता, अस्यायमर्थ:- एवं त्वं मन्यसे यथाऽहं रथेन यास्यामीत्यत्र मध्यमोत्तमपुरुषयोर्व्यत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा- तिष्ठति प्रतिष्ठते रमते उपरमतीत्यादि, कालभेदस्तु अग्निष्टोमयाजी पुत्रोऽस्य भविता, अस्यायमर्थः- अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थ:- णिनिप्रत्ययो भवितेत्यस्य सम्बन्धाद्भूतकालतां परित्यज्य भविष्य®नुमतं (प्र०)। 0 विशिष्टभू० (मु०)। 0 यास्यसि, नाहि यातस्ते (मु०)। // 791 //