________________ सप्तममध्ययन श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 789 // (804) सूत्रम् 81 / / 804 // इति नालंदइज्जं सत्तमं अज्झयणं समत्तं // इति सूयगडांगबीयसुयक्खंधो समत्तो॥ ग्रंथाग्रं० 2100 // श्रुतस्कन्धः 2 भगवं च णं उदाहु रित्यादि गौतमस्वाम्याह- आयुष्मन्नुदक! यः खलु श्रमणं वा-यथोक्तकारिणं माहनं वा-सद्ब्रह्मचर्योपेतं नालन्दीयम्, परिभाषते निन्दति मैत्री मन्यमानोऽपि, तथा सम्यग् ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स सूत्रम् 81 खलु लघुप्रकृतिः पण्डितंमन्यः परलोकस्य सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य पलिमन्थाय तद्विलोडनाय तद्विघा विघ्नशुद्धिः ताय तिष्ठति, यस्तु पुनर्महासत्त्वो रत्नाकरवद्गम्भीरोन श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः सखलु परलोकविशुद्ध्याऽवतिष्ठते, अनेन च परपरिभाषावर्जनेन यथावस्थितार्थस्वरूपदर्शनतो गौतमस्वामिना स्वौद्धत्यं परिहृतं भवति, तदेवं यथावस्थितमर्थं गौतमस्वामिनाऽवगमितोऽप्युदकः पेढालपुत्रो यदा भगवन्तं गौतममनाद्रियमाणो यस्या एव दिशः प्रादुर्भूतस्तामेव दिशंगमनाय संप्रधारितवान् // तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतमस्वाम्याह, तद्यथा- आयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके-समीपे एकमपि योगक्षेमाय पद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदम्, किंभूतं?- आर्य आर्यानुष्ठानहेतुत्वादार्यम्, तथा धार्मिक तथा शोभनवचनं सुवचनं सद्गतिहेतुत्वात् तदेवंभूतं पदंड श्रुत्वा निशम्य- अवगम्य चात्मन एव तदनुत्तरं योगक्षेमपदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुद्ध्या प्रत्युपेक्ष्य पर्यालोच्य तद्यथा-अहमनेनैवंभूतमर्थपदं लम्भितःप्रापितःसन्नसावपितावल्लौकिकस्तमुपदेशदातारमाद्रियते- पूज्योऽयमित्येवं जानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् // तदेवं गौतमस्वामिनाऽभिहित उदक इदमाह- तद्यथा- एतेषां पदानां पूर्वमज्ञानतयाऽश्रवणतयाऽबोध्या 7 देवताप्रतिमारूपत्वाचैत्यस्य देवतया गतार्थत्वान्न पृथग्निर्देशः, सूत्रे तु स्थापनायाः पूज्यतमत्वापेक्षया स्पष्ट पृथग्निर्देशः इति भाति / // 789 //