________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 783 // (802) सत्त्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः / ते तीर्थिकविशेषा बह्वसंयताः स्वतोऽविरता आत्मना सत्यामृषाणि वाक्यानि श्रुतस्कन्धः२ एव मिति वक्ष्यमाणनीत्या वियुञ्जन्ति, एवं विप्पडिवेदेति क्वचित्पाठोऽस्यायमर्थः- एवंविधप्रकारेण परेषां प्रतिवेदयन्ति- सप्तममध्ययन नालन्दीयम्, ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि दर्शयति, तद्यथा- अहं न हन्तव्योऽन्ये पुनर्हन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये सूत्रम् 79 पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्च्छितागृद्धा अध्युपपन्ना यावद्वर्षाणि श्रावकप्रत्याचतुःपञ्चमानि वा षड्दशमानि वा अतोऽप्यल्पतरं वा प्रभूततरं वा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान्ते तथाभूताः ख्यानस्य किञ्चिदज्ञानतपःकारिणः कालमासे कालं कृत्वाऽन्यतरेष्वासुरीयेषु स्थानेषु किल्बिषेष्वसुरदेवाधमेषु स्थानेषूपपत्तारो भवन्ति, सविषयता यदिवा प्राण्युपघातोपदेशदायिनो भोगाभिलाषुका असूर्येषु नित्यान्धकारेषु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते / चदेवा नारका वात्रसत्वं न व्यभिचरन्ति, तेषु च यद्यपि द्रव्यप्राणातिपातोन संभवति तथापिते भावतोयःप्राणातिपातस्तद्विरतेर्विषयतां प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्च्युता नरकाद्वोद्धृताः (दोद्वृत्ताः) क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा तमोरूवत्ताए त्ति अन्धबधिरतया प्रत्यायान्ति, ते चोभयोरप्यवस्थयोस्त्रसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम्, एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति // साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह- भगवं च णं उदाहु रित्यादि, भगवानाह-यो हि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घायुष्काः प्राणाः प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्व संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति?, शेषं सुगमम्, यावत् णो णेयाउए भव // त्ति एवमुत्तरसूत्रमपि तुल्यायुष्कविषयं समानयोगक्षेमत्वाव्याख्येयम् / तथाऽल्पायुष्कसूत्रमप्यतिस्पष्ट नरकोद्धृताः (मु०)। ॐ भवई'एव० (मु०)। // 783 //