SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 647 // चामी- नानाविधासु पृथिवीयोनिषु तृणत्वेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति // 51 // ६८६॥द्वितीयं तु पृथिवीयोनिकेषु / / श्रुतस्कन्धः 2 तृणेषूत्पद्यन्ते पृथिवीयोनिकतृणशरीरं चाहारयन्तीति तृतीयं तु तृणयोनिकेषु तृणेषूत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति तृतीयमध्ययनं आहारपरिज्ञा, // 52 // 687 // चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषूत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति / सूत्रम् 43-55 एवमौषध्याश्रया-श्चत्वार आलापका भणनीयाः, नवरमौषधिग्रहणं कर्तव्यम् / एवं हरिताश्रयाश्चत्वार आलापका वाच्याः॥५३॥ (678-690) बीजकाय 688 // कुहणेषु त्वेक एवालापको दृष्टव्यः, तद्योनिकानामपरेषामभावादिति भावः। इह चामी वनस्पतिविशेषा लोक चतुष्टयादिः व्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति / अत्र च सर्वेषामेव पृथिवीयोनिकत्वात्पृथिवीसमाश्रयत्वेनाभिहिताः। इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणत्वात्तस्यैव प्राक् प्रदर्शितं चैतन्यम्, साम्प्रतमप्काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातम्, तद्यथा- इहैके सत्त्वास्तथाविधकर्मोदयादुदकं योनिः- उत्पत्तिस्थान: येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवन्तीति / ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षत्वेन व्युत्क्रामन्ति- उत्पद्यन्ते। ये च जीवा उदकयोनिका वृक्षत्वेनोत्पन्नास्ते तच्छरीरं-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति / शेषं पूर्ववत् नेयम् / यथा पृथिवीयोनिकानां वृक्षाणां चत्वार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यम्, तदुत्पन्नानांत्वपरविकल्पाभावादेक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशैवलादीनामपरस्य प्रागुक्तस्य विकल्पस्याभावादिति / एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति // साम्प्रतमन्येन प्रकारेण वनस्पत्याश्रय (r) उत्पद्यन्ते तृणशरीरं (मु०)। 0 भजनीयाः (मु०)। // 64 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy