SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 52 // प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रियाप्रतिषेधात्मकोऽत्र नाश्रीयते, किंतर्हि?, प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां श्रुतस्कन्धः 1 चतुर्णांमध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणांव्यापारो भवत्येव, यतोऽसौ वस्तुनः पर्यायोऽवस्थाविशेषोनाभाव- प्रथममध्ययनं समयः, मात्रम्, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमर्दैन च प्रवृत्तत्वाद्य एव कपालादेरुत्पादः स एव घटादेविनाश इति प्रथमोद्देशक: विनाशस्य सहेतुकत्वमवस्थितम्, अपिच-कादाचित्कृत्वेन विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्था) चावश्यम-8 सूत्रम् 19 दर्शनाङ्गीभावचातुर्विध्यमाश्रयणीयम्, तदुक्तं- कार्यद्रव्यमनादि स्यात्प्रागभावस्य निहवे। प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्तता व्रजेत्॥१॥ कारात् मोक्षः सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे इत्यादि / तदेवं क्षणिकत्वस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायानिति / / एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपिनारकतिर्यमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात् पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेनित्यत्वादहेतुकोऽपीति / आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्द्धातुकमानं शरीरमेवेदमि' त्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ॥१८॥साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयुितमाह___ अगारमावसंतावि, अरण्णा वावि पव्वया। इमं दरिसणमावण्णा, सव्वदुक्खा विमुचई। सूत्रम् 19 // अगारं गृहं तद् आवसन्तः तस्मिंस्तिष्ठन्तो गृहस्था इत्यर्थः, आरण्या वा तापसादयः, प्रव्रजिताश्च शाक्यादयः, अपिः संभावने, // 52 // वस्तुतः (मु०)। 0 नादिः (मु०)। 0च भावस्य प्र० 10 दगसोयरिआदओ चू० तच्चणिआणं उवासगाविवझंति आरोप्पगावि अणागमणधम्मिणो य देवा तओ चेव णिधंति।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy