________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 476 // श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम्, सूत्रम् 21-25 (627-631) वीरोन कर्मकर्ता कुतः कस्मात्कदाचिदपि मेधाविनो ज्ञानात्मका: तथा- अपुनरावृत्त्या गतास्तथागताः पुनरस्मिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते?, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा तथागता: तीर्थकृद्गणधरादयो न विद्यते प्रतिज्ञानिदानबन्धनरूपा येषां तेऽप्रतिज्ञा- अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तरा लोकस्य जन्तुगणस्य सदसदर्थनिरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति // 20 // 626 // किश्चान्यत् अणुत्तरे य ठाणे से, कासवेण पवेदिते / जं किच्चा णिव्वुडा एगे, निढे पावंति पंडिता॥सूत्रम् 21 // ( // 627 // ) पंडिए वीरियं लद्धं, निग्घायाय पवत्तगं।धुणे पुव्वकडं कम्मं, णवं वाऽविण कुव्वती / / सूत्रम् 22 // // 628 // ) ण कुव्वती महावीरे, अणुपुव्वकडं रयं / रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं // सूत्रम् 23 // // 629 // ) जं मयं सव्वसाहूणं, तं मयंसल्लगत्तणं / साहइत्ताण तं तिन्ना, देवा वा अभविंसुते // सूत्रम् 24 // // 630 // ) अभविंसुपुरा धी(वी)रा, आगमिस्साविसुव्वता। दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिन्ने ।सूत्रम् 25 // // 631 // ) त्तिबेमि / इति पनरसमं जमइयं नामज्झयणं समत्तं / / (गाथागू 643) न विद्यते उत्तरं- प्रधानं यस्मात् स्थानात् तदनुत्तरं स्थानम्, तच्च सत्संयमाख्यं काश्यपेन काश्यपगोत्रेण श्रीमन्महावीरवर्धमानस्वामिना प्रवेदितं आख्यातम्, तस्य चानुत्तरत्वमाविर्भावयन्नाह- यद् अनुत्तरं संयमस्थानं एके महासत्त्वाः सदनुष्ठायिनः कृत्वा अनुपाल्य निर्वृता: निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्त: संसारचक्रवालस्य निष्ठां पर्यवसानं पण्डिता: पापाड्डीनाः प्राप्नुवन्ति, यस्मादनुत्तरं (मु०)। 8 // 476 //