________________ आशी श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 3 // // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्रशासनं विलसत्यतितमाम्। भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधनासाध्या। यद्यपि शास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वेरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतांशास्त्राणामध्ययनार्थं पात्रता . निवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरीभवन्ति। तदितररूपाणि शास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीन गीतार्थः स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणां मुद्रणं नादृतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुटः सम्पादितः मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणि सम्पादितानि। तत्परम्परायामिदंसम्पादनं स्वयंसिद्धां विशिष्टिं / धारयतीत्येतत् प्रत्यक्षमस्ति। अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वधात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम् / श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो-8