________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / 467 // श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 5-8 (611-614) आवरणक्षयात् सर्वज्ञः धर्माराधक: संयमः सन्तः- प्राणिनस्तेभ्यो हितत्वाद् अतस्तेन तपःप्रधानेन संयमेन भूतार्थहितकारिणा सदा सर्वकालं संपन्नो युक्तः, एतद्गुणसंपन्नश्चासौ भूतेषुजन्तुषु मैत्रींतद्रक्षणपरतया भूतदयां कल्पयेत् कुर्यात्, इदमुक्तं भवति- परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत्, तथा चोक्तं-(मातृवत्परदाराणि , परद्रव्याणि लोष्टवत्।) आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति॥ १॥३॥६०९॥यथा भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह- भूतैः स्थावरजङ्गमैःसह विरोधं न कुर्यात् तदुपघातकारिणमारम्भं तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स एषः अनन्तरोक्तो भूताविरोधिकारी धर्मः स्वभाव: पुण्याख्यो वा बुसीमओत्ति तीर्थकृतोऽयं धर्मः सत्संयमवतो वेति / तथा सत्संयमवान् साधुस्तीर्थकृद्वा जगत् चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीतागमपरिज्ञानेन वा परिज्ञाय सम्यगवबुध्य अस्मिन् जगति मौनीन्द्रे वा धर्मे भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या अभिमतास्ता जीवितभावना जीवसमाधानकारिणीः सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति // 4 // 610 // सद्भावनाभावितस्य यद्भवति तद्दर्शयितुमाह भावणाजोगसुद्धप्पा, जलेणावा व आहिया। नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टइ।सूत्रम् 5 // // 611 // ) तिउट्टई उमेधावी, जाणं लोगंसि पावगं / तुति पावकम्माणि, नवं कम्ममकुव्वओ॥सूत्रम् 6 // // 612 // ) अकुव्वओणवंणत्थि, कम्मं नाम विजाणइ / विन्नाय से महावीरे, जेण जाईण मिज्जई।सूत्रम् 7 // // 613 // ) ण मिज्जई महावीरे, जस्स नत्थि पुरेकडं। वाउव्व जालमञ्चेति, पिया लोगंसि इथिओ / / सूत्रम् 8 // ( // 614 // ) भावनाभिर्योगः- सम्यक्प्रणिधानलक्षणोभावनायोगस्तेन शुद्ध आत्मा-अन्तरात्मा यस्य स तथा, सच भावनायोगशुद्धा® नास्ति क्वचिदपि आदर्श। (r) ऽयं सत्संयम० (मु०)। // 467 //