SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 925 // भेदाः, कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगतावितियावदिति तृतीयम्, चतुर्थे श्रमणस्तेजोनिसर्ग कुर्यात्, पञ्चमे देवः, षष्ठे उभाविति, दशममध्ययनं केवलमयं विशेष स्तत्रे ति उपसर्गकारिणी स्फोटाः स्फोटकाः समुत्पद्येरन् अग्निदग्धे इव, तेच स्फोटका भिद्यन्ते- स्फुटन्ति, दशस्थानम्, सूत्रम् ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणंसह तेजसा-तेजोलेश्यावन्तमपि श्रमणदेवतेजसोर्बलवत्त्वात् तेजसोपहननीयत्वाद् 773-776 भस्म कुर्युर्निपातयेयुरिति, सप्तमाष्टमनवमेष्वपि तथैव, नवरंतत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च ततस्तत्र पुला:-पुलाकिका | मूलादि वनस्पतिलघुतरस्फोटिकाः सम्मूर्च्छन्ति ततो भिद्यन्ते, ते च पुला भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयं तत्र अच्चासाएमाणे त्ति उपसर्गं कुर्वन् गोशालकवत्तेजो निसृजेत्, विद्याधरासे य तत्थ त्ति तच्च तेजस्तत्र- श्रमणे निसृष्टं महावीर इव नो क्रमते ईषद्नो प्रक्रमते प्रकर्षेण न प्रभवतीत्यर्थः केवलं अंचि अंचि भियोगिक श्रेणिति उत्पतनिपतां पार्श्वतः करोति, ततश्चादक्षिणत:- पार्धात् प्रदक्षिणा- पार्श्वभ्रमणमादक्षिणप्रदक्षिणा तां करोति, ततश्चोर्द्ध-0 उपरि दिशि वेहासं ति विहाय आकाशमित्यर्थ उत्पतति, उत्पत्य च से त्ति तत्तेजस्ततः श्रमणशरीरसन्निधेस्तन्माहात्म्यप्रतिहतं / ग्रैवेयकोसत् प्रतिनिवर्त्तते प्रतिनिवृत्त्य च तदेव शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतमनुदहत्- निसर्गानन्तरमुपतापयत् किंभूतं तेजोनिसर्गशरीरकं?-सह तेजसा वर्तमानं-तेजोलब्धिमद्भस्म कुर्यादिति, अयमकोपस्यापि वीतरागस्य प्रभावो यत्परतेजोन प्रभवति, कारणानि अत्रार्थे दृष्टान्तमाह-जहा वा यथैव गोशालकस्य- भगवच्छिष्याभासस्य मङ्खल्यभिधानमपुत्रस्य, मङ्गश्च-चित्रफलकप्रधानो भिक्षुकविशेषः, तवेतेए त्ति तपोजनितत्वात्तपः किं तत्?- तेजस्तेजोलेश्येति, तत्र किलैकदा भगवान् महावीर श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत्- यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौमहावीरो गोशालकश्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांश्चोवाच- यथा अयं शरवणग्रामे विष्कम्भाः, बत्वम्, // 925 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy