________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 495 // चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशक: सूत्रम् 359-360 तरकचतुर्भङ्गी, कुम्भोपमपुरुषचतुर्भङ्गयः चउब्विहे चरित्ते पं० तं०-भिन्ने जाव अपरिस्साई, चत्तारि कुंभा पं० तं०- महुकुंभे नाम एगे महुप्पिहाणे महुकुंभेणाम एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभेणाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया पं० तं०- महुकुंभे नाम एगे मधुपिहाणे ४-'हिययमपावमकलुसंजीहाऽवियमहुरभासिणी निच्चं। जंमिपुरिसंमि विज्जति से मधुकुंभेमधुपिहाणे॥१॥हिययमपावमकलुसं जीहाऽविय कडुयभासिणी निच्चं। जंमि पुरिसंमि विज्जति से मधुकुंभे विसपिहाणे॥२॥जहिययं कलुसमयं जीहाऽविय मधुरभासिणी निच्चं / जंमि पुरिसंमि विज्जति से विसकुंभे महुपिहाणे ॥३॥जं हिययं कलुसमयं जीहाऽवि य कडुयभासिणी निच्छं। जंमि पुरिसंमि विज्जति से विसकुंभे विसपिहाणे॥४॥॥सूत्रम् 360 // चत्तारि तरगे त्यादि व्यक्तम्, नवरं तरन्तीति तरास्त एव तरकाः, समुद्रं- समुद्रवहुस्तरं सर्वविरत्यादिकं कार्य तरामिकरोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति- तदेव समर्थयतीत्येकोऽन्यस्तु तदभ्युपगम्यासमर्थत्वाद् गोष्पदंतत्कल्पं देशविरत्यादिकमल्पतमं तरति-निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्रप्रायमपि साधयतीति चतुर्थः प्रतीतः 1 / समुद्रप्रायं कार्यं तरीत्वा- निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति- न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २।पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुःसूत्रप्रपञ्चमाह-सुगमश्चायम्, नवरं पूर्ण:- सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतो द्वितीये भङ्गे तुच्छो-रिक्तस्तृतीये तुच्छोऽपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञानोऽथवा पूर्णो- भृतः पूर्व पश्चादपि पूर्ण इत्येवं चत्वारोऽपि 1, पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्वं पश्चादपि तैः पूर्ण एवेत्येवं शेषा अपि 2, पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्टुणामिति पूर्णावभासीत्येकोऽन्यस्तु पूर्णोऽपि कुतश्चिद्धतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, // 495