SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 446 // चउहिं अत्थिकाएहिं लोगे फुडे पं० तं०-धम्मत्थिकाएणं अधम्मत्थिकाएणं जीवत्थिकाएणं पुग्गलत्थिकाएणं, चउहिं बादरकातेहिं उववज्जमाणेहिं लोगे फुडे पं० तं०- पुढविकाइएहिं आउ० वाउ० वणस्सइकाइएहिं। सूत्रम् 333 // चत्तारि पएसग्गेणं तुल्ला पं० तं०-धम्मत्थिकाए अधम्मत्थिकाए लोगागासे एगजीवे॥सूत्रम् 334 // चत्तारी त्यादि, ह्रिया- लज्जया सत्त्वं- परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स ह्रीसत्त्वस्तथा ह्रिया- हसिष्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स ह्रीमनःसत्त्वः, चलंअस्थिरंपरीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्व:, एतद्विपर्ययात् स्थिरसत्त्व इति / स्थिरसत्त्वोऽनन्तरमुक्तः,सचाभिग्रहान् प्रतिपद्य पालयतीति तदर्शनाय सूत्रचतुष्टयमिदं- चत्तारि सिज्जे त्यादि, सुगमम्, नवरंशय्यते यस्यांसाशय्या-संस्तारकस्तस्याः प्रतिमा- अभिग्रहाः शय्याप्रतिमास्तत्रोद्दिष्टं फलकादीनामन्यतमद् ग्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रह उत्तरयोरन्यतरस्यामभिग्रहो,गच्छान्तर्गतानांतुचतम्रोऽपिकल्पन्त इति, वस्त्रप्रतिमा - वस्त्रग्रहणविषये प्रतिज्ञाः, कार्पासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्ये इति प्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्ये 1, तथा प्रेक्षितं 2 तथा दातुः स्वाङ्गिकं परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी, स्थानं चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः सूत्रम् |330-334 ह्रीसत्त्वादिपुरुषाः शय्यावस्त्र-पात्रस्थानप्रतिमाः, जीवस्पृष्टकार्मणोन्मिश्रशरीराणि, लोकास्तिकायबादराः समप्रदेशाः, ग्रहा: // 446 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy